पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RØ सिद्धान्तशिरोमणी ग्रहगणिते वर्षायनतुयुगपूर्वकमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात् । यत्र कृच्छ्तकचिकित्सतवासराद्य तत् सावनाच्च घटिकादिकमार्क्षमानात्' ।। ३१ ॥ वा० भा०-पूर्वश्लोके पूर्वार्ध सुगमम्। मनुष्यमानन्तु विमिश्र ज्ञेयम् । कुतः ॥ यतो लोके चतुभिरेव मानैव्यवहारः प्रवर्तते । वर्षायनतुंयुगादिकं सौरमानात् प्रवर्तते लोके ॥ मासास्तियश्व चान्द्रात् । व्रतोपवासचिकित्सितसूतकवासराद्यर्कसावनात् । घटिकादिकं नाक्षत्रादेव । एवं सौरचान्द्रसावननाक्षत्रमानैश्चतुभिरेभिमिश्रितैर्मनुष्यमानम् ॥ ३०-३१ ॥ वा० वा०-अथ बाहस्पत्यमनुष्यमाने चाह बृहस्पतेरिति। कल्पादेयवन्तो राशयो गुरुभुक्तास्ते । षष्टितष्टा विजयाद्या गतसंवत्सराः भवन्ति । यतः कल्पादौ विजयः दाक्षिणात्यास्तु मनुजमानात् संवत्सरमिच्छन्ति । तथा च रोमशासिद्धान्ते-- 'विजयाद्यास्तथाऽकब्दाः प्रभवाद्याः स्मृता बुधै:' इति । कि तन्मनुजमान विमिश्रमिति । सौर-चान्द्र-सावन-नाक्षत्राणां मध्ये द्वयोस्त्रयाणां सर्वेषां वा मिश्रणं तन्मिश्रमानम् । यस्माच्चतुभिर्मानैर्व्यवहारो बहु प्रवर्त्तते । चैत्रशुक्लप्रतिपदि रव्युदयान्मनुजमानप्रवृत्ति वदन्ति । अत्र विशेषो मुहूर्तकल्पद्रुमे । 'चेत् स्पष्ट या वाऽप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे: ।। गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषु वज्र्यः ।।' यशोधरतन्त्रे । “एकस्मिन् रविवर्षे गौरववर्षद्वयावसानं चेत् । त्र्यब्दस्पृगेनमेवं विलुससंवत्सरं प्राहुः ।।' ज्योतिविदामरणी । ‘‘गुरुसङ्क्रमयुग्मवत्समा गदिता सा ननु लुससंज्ञिता । विबुधै रहिता शुभे तु याऽधिसमा गीष्पतिसङ्क्रमोज्झिता ।” १. अत्र श्रीपतिः । 'वर्षाणि सौरात् प्रवदन्ति चान्द्रान्मासौंस्तिथी: सावनतो दिनानि । सौरैन्दवाभ्यां तु विना न तत् स्यान्नाक्षत्रमानाद्घटिकादिकालः । (सि. शे. १ अ. ४९ श्लो०) युगायनर्तुप्रभृतीनि सौरान्मानाद्द्युरात्र्योरपि वृद्धिहानी । पर्वाधिमासोनदिनानि चान्द्रात् तथा तिथेरर्धमपि प्रदिष्टम् । ( सि. शे. १ अ. ५० श्लो० ) प्रायश्चित सूतकाद्य चिकित्सायज्ञाद्यवं कर्म वारादिकश्च । शास्त्रे त्वस्मिन् खेचराणाश्च चारा विज्ञातव्याः सावनाद्भास्करीयात् ।।' (सि. शे. १ अ. ५१ श्लो०)