पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/78

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः । ३३ अथान्येषां शीघ्रोच्चोपपत्तिः । तत्र एत एव शनिजीवभूभुवामित्यादि । उच्चो ह्याकर्षको भवति ॥ तेन स्वकक्षामण्डले भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते ॥ तेनाकृष्टः सन् कक्षामण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावताऽन्तरेण दृश्यते तावत् तस्य फलं मान्दं शैध्यं वा ॥ अहो उच्चो नाम प्रदेशविशेषस्तेन कथमाकृष्यत इति तदुच्यते ॥ यथोक्ततं सूर्यसिद्धान्ते' ॥ ‘‘अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ॥ शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥ तट्टातरश्मिभिर्बद्धास्ते: सव्येतरपाणिभिः । प्राक्पश्चादपकृष्यन्ते यथाऽऽसन्नं स्वदिङ्मुखम् ॥' इत्यादि ॥ एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः । एतदुक्तं भवति ॥ शनेजोंवातू कुजाद्वा यदा रविरग्रे वर्तते। तदा मध्यग्रहात् स्फुटग्रहोऽग्रती दृश्यते । यदा तु पृष्ठगतोऽकस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते । अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् ॥ अतो रविभगणहुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् ॥ अथ मन्दोच्चोपपत्तिः । तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन् स्फुटे विलोमं कृत्वैवमसकृन्मादस्फुटो ज्ञेयः । एवं प्रत्यहं मन्दस्फुटो ज्ञेयः ॥ एवं प्रत्यहं मन्दस्फुटमुपलक्ष्य स मन्दस्फुटो धनमन्दफले क्षीयमाणे यस्भिन् दिने मध्यमतुल्यो भवति तदा तत्तुल्यमेव मन्दोच्चं ज्ञेयम् ॥ ततस्तस्माद्रविमन्दोच्चवद्भगणाः कल्प्याः ॥ एवं 田a丐日 比 अथ बुधशुकयोः शीघ्रोच्चोपपत्तिः । तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्रवेधेनान्तरभागा ज्ञेयाः ॥ ते तयोः स्फुटयोरन्तरांशा जातास्तैः स्फुटाकाद्विशोधितैः स्फुटः शुक्रो भवति ॥ ततः शुक्रस्य मन्दफलपानीय तत् स्फुटे शुके .धनणं व्यस्तं कार्यम् ॥ रविश्च मध्यमः कार्यः ॥ तयोर्यदन्तरं तच्छीघ्रफलमृणं धनञ्च ज्ञेयम् । एवं प्रतिदिनवेधेन तच्छीघ्रफलं परममृणं ज्ञातव्यम् । तत् तादृक्। फलमर्कात् तिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति । तच्च तिर्यक्रस्थत्वं त्रिभान्तरितस्य स्यात् । अतस्तत्र त्रिभोनेन स्फुटशुक्रेण तुल्यं शीघ्रोच्चं ज्ञेयम् । एवं पुनरन्यस्मिन् पर्यये प्राच्यामेवान्यच्छीघ्रोच्चं ज्ञात्वाऽनुपातः क्रियते ॥ यद्येतत्कालान्तरदिनैस्तयोरुच्चयोरन्तरमिदं लभ्यते तदेकेन किमिति ॥ फलं तुङ्गगतिः । प्राग्वत् तया भगणाः ॥ एवं बुधस्यापि ॥ अथ भौमादोनो वेधेन प्राग्वद्दक्षिणविक्षेपाभावस्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पlतः ॥ बुधशुक्रयोस्तु तदा मन्दफलाव्यस्तसंस्कृतं यावच्छीघ्रोच्चं चक्रशुद्धं तावान् पातो ज्ञेयः ॥ तत: प्राग्वद्धगणकल्पना ॥ १-६ ॥ वा० वा०-अथेष्टकालिकग्रहसाधनोपयोगितया भगणादिज्ञानस्यावश्यकत्वा --سہ ہســــــــــ سس۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔ـــــــــــــ--- १. स्पष्टा० १-२ श्लो० । ܪ-ffo