पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/66

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः २१ वा० वा०-पूर्व वर्षादिपरिभाषोता। अधुना देववर्षादिसौरादिभेदेन' नवधा भिद्यत इति मानान्याह रवेश्चक्रभोग इति । रवेः द्वादशराश्यात्मकचक्रस्य पूर्वगत्या यावता कालेन भोगः स काली रविवर्षमित्युक्तम्। अंशभोगो दिनप्रमाणम्। रविदिवसे सावनघटीप्रमाणज्ञानमनुपातेन। गतिकलाभिः षष्टिघटिकाः सावनाः लभ्यन्ते तदा षष्टिकलाभिः किमिति, लब्धं सौरदिवसे सावनाघटिकामानं ६०॥५२ ॥ मध्यगत्या मध्यगतिमानं 'महीमितादहगणातू फलानि यानि तत्कला:' इत्याचायों वक्ष्यति । अंशस्य कलाकरणमिच्छायाः प्रमाणसजातीयकरणायानुपातलक्षणं पाटयामुक्तम् ॥* प्रमाणमिच्छा च समानजाती अाद्यन्तयोः स्तः फलमन्यजातिः । मध्ये तदिच्छाहतमाद्यहृत्स्यादिछाफल व्यस्तविधिविलोमे। इति। गुणस्त्वावृत्तिलक्षणः । 'आवर्तकी गुणः प्रोत आवत्र्यो गुण्य उच्यते' गुण्यसंख्यायाः गुणकसंख्यातुल्यावर्तने यावती सङ्ख्या सा गुणनफलसंज्ञाडै लभते । भाज्यसङ्ख्याया भाजकसङ्ख्यामितोंऽशो भाग इति। तत्सङ्ख्याभागहारफलमित्युच्यते। गते: कलाद्यवयवान्भागप्रभागभागानुबन्ध४ भागापवाहजातिभिर्यथासंभवं सवर्णयित्वा भिन्ना भिन्नाभागहारप्रकारेण षष्टिकलागुणितषष्टिघटीभ्यो गत्या भागो ग्राह्यः । तत्सौरे सावनमानं भवति । द्युरात्रञ्च देवासुराणां तदेवेति । तदेव सौरवर्षं देवासुराणामहोरात्रं प्रदिष्टम् । दिनेशदर्शनयोग्यः कालविशेषो दिनमदर्शनं रात्रिरिति । एकप्रदेशस्थद्रष्टुः सूर्योदयद्वयदर्शनान्तरालकालोऽहोरात्रम् । अन्यथा प्रदेशद्वयदृष्टसूर्योदयद्वयदर्शनान्तरालकालस्य भिन्नत्वादहोरात्रभेदः स्यात् । `*यावद्दिनेशदर्शनं तावद्दिनमित्यत्रापि सौम्यायनं दिनं दक्षिणायनं रात्रिरिति दोषः प्रसज्येत । संकल्पादेवाप्तकार्यसिद्धयः सिद्धाः स्वच्छन्दचारिणः सौम्यायनप्रवृत्तः सौरमासत्रयं यावद् वड़वानलप्रदेशमाश्रयन्ते । ततो मेषादिराशित्रयार्कभोगं यावन्मेरु’ संश्रयन्ते । ततः पुनः कर्कादित्रयेण वडवानलं पुनस्तुलादित्रयेण मेरुस्थितिसुखमनुभवन्ति। मृगादिभचक्राद्धकभोगं यावद् दिनेशस्य दृष्टत्वात्सौम्यायन दिनमापद्यत । न चैतादृशदिनप्रमाणं ६शास्त्रेण प्रतिपाद्यते । `*प्रदेशविशेषमधिकृत्यैव दिनप्रमाणस्योत्तत्वात् । तस्मादेकप्रदेशस्थद्रष्टुर्यावद्दिनेशदर्शनयोग्यं कालविशेषः तावद्दिनमिति युक्तम् । अभ्रादिव्यवधानेनादर्शननिवारणाय योग्येति पदम् । यद्वा स्वक्षितिजोपरि यावद्रविबिम्बसञ्चरण तावद्दिनम्। स्वक्षितिजाधो यावद्रविबिम्बसञ्चारस्तावती रात्रिः । यावत्स्वक्षितिज एव रविबिम्बसञ्चरणं तावती सन्ध्येति लक्षणं युक्तम् । एतद्द्वीपवत्त्र्यन्याप्रविष्टनिरस्तसमस्तरविरश्मिजालः कालविशेषो रात्रिरिति लक्षणेऽत्यन्तं गौरवम् । यद्देवानां दिनं तदसुराणां रात्रिरिति भाष्ये देवपदं मेरुस्थो१. भदे नवधा ख पु० । २ लीला० त्रै० १ श्लो० ॥ ३. गुणनफलभ्यते ख पु० ॥ ४ भागभागानु' ख पु० ॥ ५. दिनेदर्श ख पु० । ६. शास्त्रण ख पु० । ७. तदेश ख पु० ॥