पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*Qა सिद्धान्तसिरोमणौ ग्रहगणिते तत्त्रिशता भवेद्राशिर्भगणो द्वादशैव ते । इति क्षेत्रपरिभाषोत्ता' ॥ १६-१८ ॥ इदानीमनयैव कालविभागपरिभाषया सौरादीनि तन्मानान्याह। - रवेश्चक्रभोगोऽर्कवर्ष' प्रदिष्टं द्युरात्र' च देवासुराणां तदेव । रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोर्मास एतच्च पैत्र' द्युरात्रम् ॥१९॥ इनोदयद्वयान्तरं तदर्कसावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु भभ्रमः ॥२०॥ वा० भा० रविर्यावता कालेन पूर्वगत्या मेषादिभचक्र भ्रमति तावत्प्रमाण रविवर्ष प्रदिष्टम् ॥ तस्य द्वादशभागो रविमासः ॥ मासस्य त्रिशदंशोऽकदिनम् ॥ दिनषष्टश्यंशोऽकघटिका ॥ तत्षष्ट्यंशोऽर्कविघटिकेति पूर्वपरिभाषया सर्वत्र वेदितव्यम् ॥ इत्यर्कमानम् ॥ अथ दैवमानम् ॥ द्युरात्रं च देवासुराणां तदेवेति । यदकवर्षं तदेव देवानां दैत्यानां च द्युरात्रमहोरात्रम्। एकमेव तेषामहोरात्रम्। किन्तु यद्देवानां दिन सा दैत्यानां रजनी। तथा च गोले वक्ष्यति । अस्मादहोरात्रान्मासवर्षादिकल्पना तयैव परिभाषया ॥ एवं वेवानां वर्ष रविवर्षशतत्रयेण षष्ट्यधिकेन भवति ॥ इति दैवमानम् । अथ चान्द्रमानम् ॥ रवीन्द्वोर्युतेः संयुतिर्याववन्या विथोर्मासि इति । रवीन्द्वोर्युतिरमावास्यान्ते भवति । तस्या युतेरन्ययुतिपर्यन्तं यावान् कालस्तावान् विधुमासः ॥ एवं योऽत्रामावास्यान्तो मासः स विधुमास इत्युक्त भवति । तस्मान्मासात् पूर्वपरिभाषया वर्षादिकल्पनेति चान्द्रमानम् । अथ पैत्रम् ॥ एतच्च पैत्रं द्युरात्रमिति ॥ यो विधुमासस्तदेव पितॄणामहोरात्रम् ! 3{a पूर्ववन्मासवर्षादिकल्पना । इति पैत्रम् । अथ सावनम् ॥ इनोदयद्वयान्तरमिति ॥ अकॉदययोरन्तरं यत् तदर्कसावनं दिनं तदेव कुदिनसंज्ञं ज्ञेयम् ॥ अतोऽपि पूर्ववन्मासवर्षादिकल्पना ॥ अत्रार्कग्रहणमुपलक्षणं तेनान्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति ॥ इति सावनम् ॥ " अथ नाक्षत्रमानम् । भवासरस्तु भभ्रम इति ॥ भभ्रमो नक्षत्रसावनमित्यर्थः ॥ इति नाक्षत्रम् ॥१९-२० ॥ २. उक्तञ्च सिद्धान्तशेखरे ` प्राणस्याद्दशभिरिहाक्षरैः द्विमात्रैः षट्प्राणैर्भवति विनाडिका हि साक्षीं । षष्टश्याऽसां भवति घटी तदीयषष्टयाऽहोरात्रं निगदितमेतदाक्षमेव ।। १२ ॥ काष्ठा स्मृताऽष्टादशभिनिमेर्ष: कला च काष्ठा दशकत्रयेग । त्रिशत्कलाः स्याद्घटिका घटीभ्यां क्षणः क्षणास्त्रिशदहर्निशं वा ।। १३ ॥ अक्ष्णोर्निमेषः कथितो निमेषस्त्रिशद्विभागोऽस्य च तत्परा स्यात् । शतांशकस्तस्य त्रुटिर्निरुक्ता सर्वज्ञगम्या यदि हन्त सा स्यात्' ( १ अ० १२-१४ श्लो० ) ।।