पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/67

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RR सिद्धान्तसिरोमणौ ग्रहगणिते पलक्षणार्थ, दैत्यपदं वडवानलस्थोपलक्षकम् । पातालतलाद्यवस्थितानां एतादृश' दिनाभावात् । एतत् कारणं गोले वक्ष्यते । ‘रवीन्द्वोर्युतेः संयुतिर्यावदन्येति । रविचन्द्रबिम्बकेन्द्रयुतेर्यावदन्या युतिः स चान्द्रो मास इति दशविधिरिति यावत् । ‘मास' परिमाणे' इत्यस्माद्धातोनिष्पन्नोऽयं मासशब्दः । मस्येते3 परि४मीयेते यावता कालेन चन्द्रवृद्धिक्षयौ स चान्द्रो मासः । यद्वा चन्द्रवृद्धिक्षयाभ्यां मस्यत इति मासः । 5可牙一 'मस्यन्ते परिमीयन्ते स्वकलावृद्धिहानितः । मास एते स्मृता मासास्त्रिशक्तिथिसमन्विता’ ॥ इति ॥ एतेन मासाभिधा चान्द्रा * एव मुख्याः । सौरादिषु गुणवशादेकस्मिन् मासे चान्द्रे रविचन्द्रातरं भगणांशाः । एकस्मिस्तिथावन्तरं द्वादशभागाः । चान्द्रमध्ये सावनघटोमानमनुपातेन । यदि गत्यन्तरकलाभिः षटिवटिकास्तदा द्वादशभागकलाभिः किमिति, मध्यगत्या चान्द्रे सावनघटयः ॥ ५९॥४ चान्द्रमास एव पित्र्यमहोरात्रम् । पितृशब्देन विधुपृष्ठस्था उच्यन्ते ।॥१९॥ अधुना सावननाक्षत्रदिनप्रमाणमाह इनोदयद्वयान्तरमिति । दिनशब्देनाहोरात्रमुच्यते। दिनशब्दः सावने मुख्योऽन्यत्र गौणः। भानां 3भ्रमो यावता कालेन सम्पद्यते तद्भदिनम् ॥ नाक्षत्रमध्ये सावनज्ञानमनुपातेन । रविगतियुक्तचक्रकलाभिः षष्टिघटिकास्तदा। केवलाभिश्चक्रकलाभिः किमिति, जातम् ।। ५९ ।। ५२ । ( ५० ? ) चन्द्रेण यावता कालेन नक्षत्रं भुज्यते तद्भदिनम् । तज्ज्ञानं त्रैराशिकेन । यदि चन्द्रगत्या ॥७९०॥३५॥ षष्टिघटिका अर्कसावनाः लभ्यन्ते तदाऽष्टशतकलाभिः किमिति जातम् ॥६०॥४७॥ (४२ ?) एवं ‘सप्तविशतिदिनैर्मास इति । इदं नाक्षत्रं मानं प्रवर्षणमेघगर्भपरिज्ञाने । उपयुज्यत इति नादरः । अत्राचायेंण भभ्रमशब्देन नाक्षत्र° सावन मेव* घटिकादिज्ञानार्थम् ॥२०॥ इदानों ब्राह्ममानमाह wr ( a V खखाभ्रदन्तसागरयुगाग्नयुग्मभूगुणः । क्रमेंण सूर्यवत्सरैः कृतादयो युगाङ्घ्रयः ॥ २१ ॥ १. तदृश ख पु० । २. परिमास क ख ग ०पु । ३ मास्येते ख मस्य ते ग पु० च । ४. परिभीषेते ख परिभीयंते ग पु० च । । ५. चांद्र क पु० । ६. प्रमो ख पु० । ܝ - ७. नाक्षत्रे ख पु० । ८. नमवादि क ख ग पु० ।