以RR疗 सिद्धान्तशिरोमणी गोलाध्याये युक्तायनांशोंऽशशतं शशी चेदशीतिरकों द्विशती विपातः । चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्व यदि बोबुधीषि ॥ ५४ ।। १९. पलांशभानूनतभागयोग सहस्ररश्मेरपमांशकांश्च । दिगंशकांश्च प्रविलोक्य मित्र प्रचक्ष्व मे सत्वरमक्षभागान् । २०. नक्षत्रयोर्यः स्फुटवैषुवांशान् स्फुटापमांशांश्च समीक्ष्य धीमान् । । ज्ञातानुदक्संज्ञपलांशदेशे यदा तयोः स्यान्नतभागसाम्यम् ॥ " तत्कालज तन्नतभागमान प्रत्येकमुक्षस्य दिगंशभागान्। नताख्यकालौ च सपद्यवैति निःसंशयो गोलविदग्रणीः सः । एवंमन्येऽपि शिष्यबुद्धिवैशद्यार्थं श्रीम० देवेन विरचिताः प्रश्नाः । - समशङ्कयुतं तद्धृत्यग्रायोगमवेक्ष्य यः । पृथक्पृथग्वदेदेतांस्तं मन्ये क्षेत्रवित्तमम् । । दिगंशनॅतकालवित्र समवगत्य योंऽशान्तानथापमविदत्र वा वदति तूर्णमक्षप्रभाम् । । स गोलगणिताटवीद्विरदगोलवित्सङ्गरे मृगाधिपकुमारको भुवि जयश्रियं संश्रयेत् । सर्वे ग्रहा रविमुखास्तु दवीयसो वा नेदीयसः खलु भुवश्च भवेयुरेव । कल्पे वद स्थितिरियं हि कदा कदा स्यात् तां च स्थिति वद सदःश्रवणैकयोग्याम् ॥ वर्षाणि यानि नव तानि महीघ्रमुख्यैभिन्नानि भारतमुखानि समं समन्तात्। ‘गोलेऽन्तरास्थितमिलावृतमेकमेषामंशविभज्य वद तानि पृथक्-पृथङ् मे ॥ एवमन्येऽपि शिष्यबुद्धिर्वंशद्यार्थं श्रीम० देवसतीथ्र्थेन विनायकशास्त्रिणा विरचिताः प्रश्नाः l योगान्तरज्यान्यतरज्ज्ञात्वा योग ज्ययोरपि । यो वेद चापयोदोंज्र्ये पृथक् कोऽन्यस्ततः सुधीः । योगान्तरज्यान्यतरद् विदित्वा चान्तरं ज्ययोः । यो वेद चापयोर्दोज्र्ये पृथक् कोऽन्यस्ततः सुधीः ॥ बुघोपमनतांशवित् समवगत्य दिग्भागकान् नतं समयमत्र वा वदति शीघ्रमक्षज्यकाम् । सगोलगणित कृत करतलेऽमुना धीमता नगोचरममुष्य यत् तदिह नास्ति पृथ्वीतले । अथ-बाप्पूदेवोक्तोऽन्यः प्रश्नः--- मासस्य प्रथमे पादे तुर्ये वा हिमदीधितेः । शुक्लाङ्गलानि सूक्ष्माणि वदाशु गणकोत्तम ॥ अस्य भङ्गः । - ܘ मानोर्यदेन्दुश्चरणोनषट्काष्टाल्पांशकैरन्तरितस्तदानीम् । तदंशदो.कोटिगुणौ खरांशुश्रुत्या निहत्य त्रिगुणेन भक्तौ । । कोटीफलस्य द्विजराजकर्णीॉनितस्य वर्गातू खलु दो:फलस्य । कृत्या युतान्मूलमनेन भक्तस्त्रिभज्यकादो:फलयोश्च घातः । लब्धस्य याश्चापकलाः स्युरासां विलोममौव्य ऋतुमिर्हतायाः । ; त्रिभज्ययासं तुहिनांशुबिम्बे शुक्लाङ्गुलानिः स्युरतिस्फुटानि । - ܚܗ:91 :41[8 एवं संवीक्ष्य शीतांशुशुक्लाड्लमिति सखे। सहस्ररश्मिशुभ्रांश्वोरन्तरांशान् द्रुतं वद ॥_
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/564
दिखावट