पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/563

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नध्याय: ५२१ तिग्मांशुचन्द्रौ किल सायनांशौचतुर्द्रिराशीच विपातचन्द्रः । गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्व यदि बोबुधीषि ॥ ९३ ।। एवमन्येऽपि शिष्यबुद्धिवैशद्यार्थं शा० बापूदेवेन विरचिताः प्रश्नाः । R. R o. 88 ፻ቕ... 8. ፻Yኗ. ፻ዒ. R. १७. くく。 यद्भागनवत्यन्तरदलजीवायाः कृतिस्तदशानाम् । द्विगुणाया जीवायाः कृत्या तुल्या भवेद्वदांशांस्तान् ॥ अग्राक्षितिज्ययोयोंगं क्रान्तिज्यां चावगम्य यः । सत्वरं पलभां वेत्ति सोऽक्षक्षेत्रविदग्रणीः । समशङ्क्वग्रयोर्धातमवगत्य च तद्धृतिम् । अक्षक्षेत्रविदक्षामां वद मित्र तथापमम् । उज्जयिन्यां यदा सूर्य: सममण्डलमागतः । नतकाल तदा वीक्ष्य क्रान्तिज्यां वद कोविद । अक्षप्रभां चरज्यां च ज्ञात्वा त्वं क्रान्तिमौविकाम् । अवगच्छ द्रुतं तात यदि गोलेऽसि शिक्षितः ॥ सहस्रभानौ समवृत्तयाते पलोद्भवाख्यं वलनं विदित्वा । ۔۔۔۔۔” समुन्नतं कालमवेक्ष्य विद्वन् बूह्यक्षभामुष्णकरापमं च । समाख्यवृत्तात् किल दक्षिणोदग्वृत्तं गतोऽक: समयेन येन । तत्राऽकमध्याह्ननरं च विद्वन् ज्ञात्वाक्षभागान् प्रवदापमं च । प्रहस्य मध्यमां क्रान्ति स्फुटांश्च विषुवांशकान् । विज्ञाय प्रस्फुटां क्रान्ति शरं च वद सत्वरम् ॥ बिम्बीयायनवलनं मध्यां क्रान्ति खगस्य चावेक्षय । स्पष्टामपविषुवांशान् विशिखं च वदाशु गोलज्ञ । मध्यां क्रान्ति च शरं ज्ञात्वा यः प्रस्फुटापमं वेत्ति । स्पष्टांश्च विषुवभागांस्तं मन्ये गोलविद्वयम् । स्फुटास्फुटापमक्रमाववेक्ष्य यः शरांशकान् । स्फुटांश्च वैषुवांशकान् वदेत् स गोलविद्वरः । खेटबिम्बवलन किलायन प्रस्फुटांव विषुवाख्यभागकान्। वीक्ष्य शीघ्रमपमौ स्फुटास्फुटौ मार्गणं च वद मित्र सत्त्वरम् । खेटस्य बाणं विषुवाख्यमागांश्चावेक्ष्य यः शीघ्रमवैति भागान् । स्फुटास्फुटक्रान्तिमवान् स नूनं वैज्ञानिकः स्याद्गणिते सगोले ॥ स्फुटविषुवांशान् स्पष्टां क्रान्ति विज्ञाय मध्यमक्रान्तिम् । शरमपि वदति य एष प्राज्ञो गणितज्ञगणनीयः । खेटस्यायनवलनं बिम्बोत्थं मार्गणं च विज्ञाय ॥ गाणितिकवयं शीघ्रं स्फुटविषुवांशान् समाचक्ष्व । खेटस्य स्फुटमपमं ज्ञात्वा बिम्बोत्थमायनं वलनम् । यो वेत्ति मध्यमापममिषुं च विज्ञेय एष गोलज्ञः ॥ विद्वन् खगस्फुटक्रान्ति शरं विज्ञाय वेत्सि चेत् । अपमं मध्यमं तर्हि मन्ये गणितवित्तमम् । यत्राद्रिनेत्रप्रमिताः पलांशास्तत्र द्युयाते नखनाडिकाभिः । तुल्ये नृभाकोंदयसम्मुखी स्याद्यदा तदाकपममाशु विद्धि। सि०-६६