५२० सिद्धान्तशिरोमणौ गोलाध्याये ऊध्व्स्थस्य गृहादिभिव्यवहितस्याप्यग्रमात्रं सखे वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते । अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित् ॥ ५१ ।। दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा वंशस्य प्रतिबिम्बितस्य सलिले दृश्ट्राग्रमात्र सखे। अत्र व त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छुद्ध्यं त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ।। ९२ ।। पदं यदाद्यात्परवर्गयुक्ताद्गोलक्रमात् तत् परयुक्तहीनम् । अक्षज्यका स्यादथ सौम्यगोले सूत्रद्युजीवाभिहतिर्यदाल्पा । शङ्कोस्त्रिभज्यागुणितात् तदाद्यहीनात् स्वनिघ्नात् परतः पदं यत् । तेनोनयुक्तः परसंज्ञकः स्याद्विघाक्षजीवा सुधियैवमूह्यम् । बाप्पूदेवोक्तः प्रश्नः-- एकस्य स्फुटवैषुवांशकमितिः शून्यं द्वितीयस्य च स्पष्टापक्रमसंमितिः खमिति यावेकाशतुल्येषुकौ ॥ खेटौ तद्विवरं भवृत्तगतमालोक्येषुमानं तयोः शीघ्रं मे गणक प्रचक्ष्व यदि ते गोलेऽस्त्यलं नैपुणम् । अस्य भङ्गः - द्विगुणपरमक्रान्त्यंशानां ज्ययाधितयाहृतस्त्रिभवनगुणो यो या खेटान्तरोत्क्रमशिब्जिनी । त्रिभगुणहृता त्रैतत् कृत्योवियोगपदेन हृद्ग्रहविवरजा ज्या स्याद्बाणज्यका च ततः शरः । 3회 되T अक्षिक्षुण्णपरापमस्य हि गुणोऽन्यः स्यात् स खेटान्तरव्यस्तज्या गुणितो हृतस्त्रिभगुणेनासस्य खण्डाद्धनुः । यत् स्यात् तद्रहिताभ्रनन्दलवतो मौव्य द्विनिघ्न्या हृतोऽ न्यः खेटान्तरजीवया विगुणितो वेषुज्यकातः शरः । مس-T नक्षत्राणां त्रयाणां स्याद्येषां स्पष्टोऽपमः समः । एकदिक्कः किलैतेषामन्तरं च द्वयोर्द्वयोः । बृहदवृत्तगतं वीक्ष्य यो वदेत् तं स्फुटापमम् । स गोले गणितेऽत्यन्तं प्रवीणः स्यादसंशयम् ॥ अस्य भङ्ग.- भजातान्यन्तराणि स्युस्त्रीणि यानि ततः पृथक् । दलानि यानि तज्जीवास्त्र्यस्रबाहून् प्रकल्पयेत् । तत्त्र्यस्रबाहुघातार्घात् त्र्यस्रक्षेत्रफलेन यत् । अवासं स्याद् द्युञ्जीवा स्यादपमावगमस्ततः ॥
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/562
दिखावट