पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/552

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ጻ8 o सिद्धान्तशिरोमणौ गोलाध्याये क्रान्तिज्यासमशङ्कुतद्धृतियुर्तिं कुज्योनितां वीक्ष्य यो विंशत्यश्वरसैः ६७२० भितामथ परां षष्टयङ्कचन्द्रैः १९६० मिताम् । कुज्याग्रापमशिञ्जिनीयुतिमिनं वेत्त्यक्षभां चापि तं ज्योतिर्वित्कमलावबोधनविधी वन्दे परं भास्करम् ॥ ४३।। क्रान्तिज्यासमशङ्कुतद्धृतियुर्तिं कुञ्ज्योनितां वीक्ष्य यः घूर्णाब्ध्यब्धिमहीमिता १४४० मथ परांखाभ्राष्टभू १८०० संमिताम् । अग्राज्यापमशङ्कुतद्धृतियुर्तिं वेत्त्यक्षभाकीं च तं ज्योतिर्वित्कमलावबोधनविधी वन्दे परं भास्करम्। ४४ । लघुवर्गान्महन्निध्नाद् घनमूलं तु यद्भवेत् । ऊर्ध्वाधः क्षेत्रजे प्रश्ने लघोः कोटिः श्रवोऽन्यथा । लघुनिघ्नान्महद्वर्गाद्धनमूलं महद्द्भुजः ।। ऊर्ध्वव्यापकजे प्रश्ने कोटिस्तन्महतो भवेत् । केवलं नामभेदात्तु दोःकोटयोर्याभिधा भवेत् । तन्मात्रेण न दोषोऽत्र देयो मतिमतां वरैः । अधोदोरूर्ध्वकोटयोस्तु साधयेदन्यदेकतः । अन्यतो लम्बदोःकोटच्यन्यतरत् तदसंयुतम् ॥ ज्ञात्वा तेनान्वितं पूर्व प्रकल्प्य व्यापकश्रुतिम् । साधितं योजयेद्योज्ये पुनः कणं प्रकल्प्य तत् । एवं पुनःपुनः साध्यमासाम्यं साधयेद्बुधः । एवमूर्ध्वाधरश्रुत्योः साधयेल्लम्बमन्यजम् । अन्यतो लम्बदो:काटघन्यतरत् तदसंयुतम् । ज्ञात्वा तेनोनितं पूर्व कोर्टि बाहुं स्वलम्बजम्। प्रकल्प्य साधितेनोनं वियोज्यं तु पुनस्तथा । प्रकल्प्य कल्प्यमासाम्यमसकृत् साध्यमानयेत् । ऊध्र्वाधो लम्बयोरेक प्रकल्प्यान्यत् तदानयेत्। ज्ञात्वा व्यापकज कर्ण घनमूल त्रिकाहतेः । व्यापकक्षेत्रजो लम्बस्ततः पूर्वप्रकारतः । संसाध्य साध्यमासाम्यमेवं साध्यो मुहुः स्फुटः । प्रश्नाः षडेवमसकृद्विधिमालम्ब्य साधिताः । अन्ये सकृद्विधानेन पलभा सुलभा ततः ॥ १. बाप्पूदेवोक्तः प्रश्न:- अग्रकासमनृतद्धृतियोगः खाम्बराम्बरहयाः ७००० किल यत्र ॥ व्योमसागरगजा ८४० स्त्वपमज्या बूहि तत्र पलभा गणितज्ञ ॥ अस्य भङ्गः - अग्रासमनरतद्धृतियोगः क्रान्तिज्यया युतो द्विघ्नः । तेन हृता योगकृतिस्तद्धृतिरस्याः पलप्रभा ज्ञेया । अत्र श्रीम० देवसतीथ्येंन विनायकशास्त्रिणोत्ता अक्षक्षेत्रोत्थानां कतिपययोगजप्रश्नानां भङ्गाः-- भुजकोटियुति लम्बं ज्ञास्वा तद्वर्गयोगतः । पदं लम्बोनितं कर्णस्तद्वर्गद्विगुणात् त्यजेत् ॥ युतिवर्गं ततो मूलेनोनयुक्ता युतिः पृथक् । तदद्धं भुजकोटी स्तो कर्णे ज्ञातेऽप्ययं विधिः । विज्ञाय कोटिभुजयोलम्बश्रुत्योश्च संयुतिम् । तयोर्वर्गान्तरपदं लम्बोऽतः श्रुतिमानयेत् ।