पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/551

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रशेनाध्यायः ko* यत्र क्षितिज्या शरसिद्ध २४९ तुल्या स्यात् तद्धृतिस्तत्त्वकुरामसंख्या ३१२५ ।। तत्राक्षभाकीं गणक प्रचक्रव चेदक्षजक्षेत्रविचक्षणोऽसि' 8R अन्यस्य वर्गेण युताद्यदाद्यान्मूल तदन्यान्वितमक्षकर्णः । ततोऽक्षमाया अपि चापमस्य ज्ञानं द्रुतं स्याद्गणकाग्रणीनाम् । अत्रोक्तवत् करणेन जात अाद्यः ४७ ॥ ४८ ॥ ४३ ॥ अन्यः ५ ।। ५६ ।। ४३ पलकर्णः १५ । ३ । १८ पलमा ९ । ५ । ३९ क्रान्तिरंशाद्या २१ ॥ १४ ॥ ३६ । १. अत्र बापूदेवोक्तः प्रश्नः— वियदभ्ररसैर्मिता ६०० पमज्या खनवाज्ञाब्जमिता १६९० च तव्रुतिः स्यात् । वदं तत्र पलप्रभां सुबुद्धे यदि गोले गणिते च तेऽस्ति बोधः । अस्य मङ्गः--- क्रान्तिज्यकाविहृततद्धृतिराद्यसंज्ञा तद्वर्गतोऽब्धिरहितात् पदमन्यसंज्ञम् । आद्यान्ययो रस ६ समाहतयोर्वियोगो योगश्व तत्र पलभा भवति द्विधैव । यत्र त्वपममौर्वीतस्तद्धृतिद्विगुणा भवेत् । अत्र षड्रघ्नाद्यतुल्या स्यादेकर्धव पलप्रभा । अत्र श्रीम०. देवसतीथ्र्येन विनायकशास्त्रिणोत्ता अक्षक्षेत्रजयावत्प्रश्नानां भजुा:- " सिद्धान्तगोलयोर्वेद्यान्यक्षक्षेत्राणि सस ये ॥ तत्र क्षेत्रत्रयं कल्प्यं प्रत्येकं तु षडङ्गकम् ॥ व्यापकक्षेत्रमाद्यं तदूर्ध्वाधः क्षेत्रसंयुतम् । एवं क्षेत्रत्रयं ज्ञेयं यतोऽयं प्रश्नसंग्रहः ।। तदङ्गानि भुजः कोटिः कणों लम्बोऽथ तद्भवे । भुजकोटी ततो द्वे द्वे विज्ञायान्यानि साधयेत् । ज्ञातद्वन्द्वानि चैकैकक्षेत्रे पञ्चदशामुतः । भङ्क्तुं प्रश्नास्तु नवधा स्फुटः पाटीविदां विधिः ॥ तत्कृत्योरितिपद्येन षट्सु शेषेसु वक्ष्यते । कणों लम्बजदो:कोटयन्यतरच्च द्वयं यदि ॥ ज्ञातं तदितरज्ज्ञेयं द्वयोरन्तरतः स्फुटम् । वधाल्लम्बजदोः कोटयोर्मूलं लम्बो भवेदिति ॥ अनुपातवशात् सिद्धं शेषेषु त्रिषु वक्ष्यते । श्रुतेलम्बजदोःकोटच्यन्यतरस्यान्तरं परम् ॥ दोःकोटयन्यतरत् स्वघ्नं वधस्तस्मात् स्फुटो विधिः । चतुर्गुणस्य ' घातस्येत्यादिना वक्ष्यतेऽपर: । दलितो लम्बजः कोटिः पराख्योऽस्मात् कृतीकृतात् । भुजवर्गयुतान्मूलं परोनं लम्बजो भुजः ॥ व्यत्ययाद् भुजकोटच्योस्तु परः प्रश्नोऽपि सिध्यति । वधो लम्बजदोःकोटयोलम्बवर्गो युतिः श्रुतिः ॥ विधिश्वतुर्गुणस्येति स्पष्टो वा वक्ष्यतेऽपरः । कर्णार्धलम्बयोर्वगन्तरान्मूलेन हीनयुक् ॥ कर्णस्यार्धं द्विधैवं स्यात् कोटिदीँर्वात्र लम्बजः । एवं पञ्चदशप्रश्नेष्वन्येषां साधनं स्फुटम् ॥ क्षेत्रयोरेवमेकैको विज्ञायान्ये प्रकल्पिताः । त्रयस्त्रिशदिह प्रश्नास्ते त्रिष्वेकोनितं शतम् । प्रश्नानां नवतिस्तत्र प्रकारैः पूर्वकल्पितैः । सिध्यत्यथो नवानां तु वक्ष्ये विधिचतुष्टयम् ॥ लम्बजः कोटिरूध्वस्थो लम्बजो दोरधःस्थितः । व्यापकस्था श्रुतिस्तत्र द्वयं ज्ञात्वा विधिस्त्वयम् ॥