पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/550

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*Ao< सिद्धान्तशिरोमणौ गोलाध्याये केनाप्युज्जयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चे। न्मन्ये त्वां निशितं सगूर्वगणकोन्मत्तेभकुम्भाङ्कुशम् ॥ ४० ।। मातंण्डे सममण्डलं प्रविशतिच्छाया किलाष्ट्यङ्गुला दृष्ट्राष्ट्रासु घटीषु कुत्रचिदपि स्थाने कदाचिदिने । अकक्रान्तगुणा तदा वदास चदक्षप्रभा तत्र च त्रिप्रश्नप्रचुरप्रपञ्वचतुरं मन्ये त्वदन्यं नहि' । ४१ ॥ त्रिभज्यकाकामिहतेहरासं क्रान्तिज्यकां गाणितिकोऽवगच्छेत्। ज्ञात्वाक्षभागांश्च समुन्नतासून् दृष्ट्रा प्रविष्टं सममण्डलेऽकम् । द्वीन्दूनक्षप्रभास्थाने द्वीन्दुस्थाने तदाक्षभाम् । प्रकल्प्यापक्रमज्यात्र साधिता सैव लभ्यते ॥ Tअक्षप्रभाकहतिताडितायाः समुन्नतासूत्क्रममौविकायाः । कृत्याक्षकर्णस्य विभाजितायाः फलस्य चापं नवतेविंशोध्यम् ॥ शेषज्ययाक्षश्रुतिवर्गनिध्न्याहृतार्कनिध्न्युन्नतकालजीवा । त्रिज्याक्षभाघातहता सकृत् स्यात् क्रान्तिज्यकार्के सममण्डलस्थे । সঅলা इह प्रसाध्योन्नतकालखण्डेत्यनेन साध्यः प्रथमं किलाद्यः । तत्कोटिजीवा पलकर्णनिघ्न्युन्नतासुमौव्र्या विहृता समाभा । 布守一 त्रिज्यानिध्नादक्षकर्णस्य वर्गाद्वेदेन्द्रघ्नीमुन्नतासूत्क्रमज्याम् । त्यक्त्वा शेषादुन्नतासुज्यकाक्षश्रुत्याहत्याप्त समाख्यप्रभा वा । तस्याः समनरः साध्यस्तस्मादक्षभया हतात् । पलकणेंन लब्धस्य चापं क्रान्तिर्भवेत् सकृत् ॥ अपिच द्विध्नी त्रिभज्या नयनाहतानामक्षांशकानां भुजजीवयासा । या योन्नतासूत्क्रममौर्विका च त्रिजीवया संविहृता तयोयत् । वर्गान्तरान्मूलमनेन भक्तोन्नतासुजीवापममौर्विका स्यात् । समुन्नतास्वक्षलवावबोधाद्द्दष्ट प्रविष्ट समवृत्तमकें ॥ उक्तवत् करणेन लब्धा क्रान्तिर्मागाद्या १० ।। १४ ॥ १२ ।। १. अत्र बापूदेवोक्तो विधिः-- अत्रोन्नतासूत्क्रममौविकाघ्नस्त्रिज्याहृतो द्वादशवर्ग आद्यः । समप्रभार्धन हतोन्नतासुज्यका त्रिभज्याविहृतान्यसंज्ञः ।