पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/537

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९५
प्रशनाघयायः

 षट्कमितमृणक्षेपः । ननु कथमयं क्षेपः । अत्र भाज्यभाजकयोर्लक्षत्रयेणापवर्तनं तत् नास्य क्षेपस्येति खिलत्वापत्ति । सत्यम् । अत उक्तमुद्दिष्ट कुट्टके तज्जैरित्यादि । अतो लक्षत्रयेणापवर्तने कृतेऽधिमासशेषं षड्दृष्टम् । अतः कुट्टकेन ज्ञातं कल्पगतं चतुभिरूनानि त्रयोविशतिशतवर्षाणि २२९६ । तथा षण्मासाः ६ । षट् तिथयश्च। ६ ।। २३-२४ ।।

 वा० वा०--यस्मिन् कालेऽधिकमासशेषमीदृशं तस्मिन् काले कियत्कल्पगतमिति यो वदति तस्योत्कर्षमाह -स्यादिति । वर्गप्रकृतिविषयमुदाहरणद्वयमत्रेत्यनेकवर्णमध्यमाहरणेनानेयम् । अत्राधिमासशेषप्रमाणं यावत्तावत् । या १। अस्य कृतिदिघ्नी सरूपेति जातम् ।

 या व १. रू. १ अयं वर्ग इति कालकवर्गासमं कृत्वा पक्षयो रूपं प्रक्षिप्य कालकवर्गस्य मूलं कालकः १ अपरपक्षस्यास्य या व १. रू. १ वर्गप्रकृत्या मूलं ग्राह्मम् । तत्र कनिष्ठम् ६ ज्येष्ठं १९ कनिष्ठं प्रकृतिवर्णमानमिति यावत्तावन्मानमिद ६ मेवाधिशेषम् । अत्र समासान्तरभावनाभ्यां पदानामानन्त्यम् ।

 द्वितीयोदाहरणेऽधिशेषम् । या १ अस्य कृतिव्येंकादशहृता या व त् रू १ मूलदेति कालकवर्गेण साम्ये समच्छेदीकृत्य छेदगमे शोधने च कृते जातौ पक्षौ या व १ का रू, का व १० रू १ प्रथमपक्षमूलं या १ । द्वितीयस्य वर्गप्रकृत्या तत्र कनिष्ठं ६ ज्येष्ठं १९ प्रथमपक्षतुल्यमिति तदेव यावत्तावन्मानं १९, ततोऽधिमासशेषं शुद्धिः ।

कल्पाधिमासा भाज्यः कल्पसौरा हरः गुणो गतसौरा इति सुगमम् । ।
चतुस्त्रिगुणयो राश्योः संयुतिद्वियुता तयोः । राशिघातेन तुल्या स्यातौ राशी शीघ्रमानय ।

 इत्युदाहरणं कलाशेषविकलाशेषयोश्चतुस्त्रिगुणयोः संयुक्तिद्वियुता यस्मिन् काले · कलाशेषविकलाशेषयोघर्षांततुल्या स्याक्तत्र कल्पगतं वदेति भावितोदाहरणं योज्यम् । एवं सर्वाण्यप्युदाहरणानि श्रीधरार्यभट्टब्रह्मगुप्ताद्यग्रहगणितप्रश्नविषयाण्येव योजितानि।

 सिंहावलोकनेन कुट्टके विशेषमाह-उद्दिष्टमिति । भाज्यो यद्गुणकगुणः क्षेपयुतो भाजकः भक्तः शुद्धयेत्सगुणकोऽत्र या लब्धिः सा लब्धिरिति । अत्र गुणकज्ञानार्थमुपायः ॥ केवलभाज्ये भाजकभक्ते यदि रूपमितं शेषं स्यात्तदोद्दिष्टक्षेपतुल्ये त्वधनक्षेपे क्षेपतुल्य एव गुणको युक्तः । केवलभाज्ये भाजकभक्त या लब्धिः सा गुणगुणिता सती गुणगुणितभाज्यजा स्यात् । केवलभाज्ये भाजकभक्त यत्र रूपं शेषं तत्र भाज्यस्य. खण्डद्वयम् ।

 एकं केवलभाज्ये भाजकभक्त या लब्धिस्तद्गुणितभाजकतुल्यम् ।

 द्वितीयं रूपतुल्यम् । अत्र द्वितीयखण्डे रूपं क्षेपतुल्यगुणकगुणितं क्षेपतुल्यमेव स्यादत्राधनत्वात् । क्षेपे शोधिते शून्यमेव स्यादिति प्रथमखण्डोत्थलब्धिरेव लब्धिभंवति । 'योगे खं क्षेपसममित्युक्तै:' । खण्डद्वयोत्थलब्धियोगस्य सम्पूर्णलब्धित्वात्। खण्डद्वयमध्ये यत्र कुत्रापि खण्डे क्षेपसंस्कारो विधेय इति द्वितीयखण्ड एव कृतः प्रथमखण्डस्य केवललब्धिभाजकघातात्मकत्वेन प्रथमखण्डं येन केनापि गणितं भाजकभक्तं शुद्धद्येदेवेति क्षेपतुल्यो गुणको युक्त एव ।