पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/536

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९४
सिद्धान्तशिरोमणौ गोलाध्याये

 भगणशेषादहगणानयनोपायमाह-दृढ्भगणा येन गुणा इति कल्पचन्द्रभगणा भाज्यः । कल्पकुदिनृानि हरः भगणशेषं शुद्धिः । त्रयोऽपि खखाभ्रगगनप्राणत्र्तुभिरपवक्तिताः । अत्र रूपं विशुद्धि प्रकल्प्य गुणः साधितः कृतगुणाष्टाङ्गादिवसुतुल्यो जातः । अपरो हरेण तष्ट इति विश्वाग्न्यङ्गशराङ्ककैश्च विभजेदित्युक्तम्।। एतान्यपवत्तितकुदिनान्येव । 'इटाहतस्वस्वहरेण युक्त ते वा भवेतां बहुधा गुणाप्ती इत्यनेन 'तावतत्र हरं क्षिपेदभिमते यावद् भवेद् वासरे' इत्युक्तम् ॥ १७ २१ ।।

{{gap}]अथ खिलोदाहरणम् ।

राशयः खं० लवाः पञ्च ५ कलाः षड्वर्गं ३६ संमिताः ।
विकला गोभुवो १९ नेदृङ्मध्येन्दुरुदये क्वचित् ॥ २२ ।।

 वा० भा०-च ० । ५ । ३६ । १९ । अतो राश्यादेविकला इत्यादिके कृते शेष ससविशतिः २७ ॥ शेषोनहरो विकलाशेषमिदम् १२९५९७३ । अस्मिन् दृढक्वहाधिके ज्ञातः खिलः खेटः । ईदृशश्चन्द्रो मध्यम औदयिको न कदाचिद्भवतीत्यर्थः ।। २२ ।।

 वा० वा०-खिलोदाहरणमाह-राशय इति । लङ्कासूर्योदयकालीनमध्यमग्रहादेवाहगणानयनौचित्येन यस्मादेव मध्यमादहगणो नायाति तस्योदयकालीनत्वं न कदापि संभवतीति खिलोदाहृतेन्दुतुल्यो मध्येन्दुरुदये क्वचिदपि न भवतीत्युक्तम् ॥ २२ ॥

 एवमनेकधा खिलत्वं कुट्टकविषयमभिधायेदानी वर्गप्रकृतिविषयमाह—

स्याद्यस्मिन्नधिमासशेषककृतिर्दिग्ध्नी सरूपा कृति
व्येंका शेषकृतिर्हता च दशभिः स्यान्मूलदा वा यदा ।
काले कल्पगतं तदा वदति यस्तत्पादपद्म बुधाः
सेवन्ते बहुधा प्रमेयवियति भ्रान्ता भ्रमन्तोऽलिवत् ॥ २३।
उद्दिष्टं कुट्टके तज्ज्ञैज्ञेयं निरपवर्तनम् ।
व्यभिचारः कञ्चित् कापि खिलत्वापत्तिरन्यथा ।। २४ ।।

 वा० भा०-स्पष्टार्थम् । अस्य वर्गप्रकृत्या भङ्गः । तत्राधिमासशेषप्रमाणणं यावत्तावतू १ । अस्य कृतिदिग्ध्नी सरूपा जाता । याव १० रू १ । इष्ट ह्वस्वमित्यादिना जाते हृस्वज्येष्ठमूले ६ ॥ १९ । वा २२८ ॥ ७२१ । अत्र हृस्वं यावतावन्मान तदेवाधिमासशेषम् ६। वा २२८ ॥

 अथ द्वितीयोदाहरणेऽधिमासशेषप्रमाणं यावत्तावत् १ । अस्य कृतिव्येंका दशहृता च जाता याव दैव् रू १ । अस्य मूलप्रमाणं कालकः १ । अतः कालकवर्गसमीकरणे शोधने च कृते जातं प्रथमपक्षमूलम्। या १ ॥ परपक्षस्यास्य काव १० रू१ । वर्गप्रकृत्या मूले जाते ते एव ६। १९ । वा २२८ ॥ ७२१ । अत्र कनिष्ठं कालकमानं ज्येष्ठं यावत्तावन्मानं तदेवाधिमासशेषम् ॥ १९ वा ७२१ । अतः कल्पगतानयनं कुट्टकेन । तत्राधिमासा भाज्यः ॥ रविदिनानि हारः । अधिमासशेषं




१. लो० कु० १० श्लो० ।