पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/535

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९३
प्रश्नध्याय:

प्रश्नध्याय: Y&  अथ विकलाशेषज्ञानमुच्यते । यदत्रावशेषं त्यक्ततं तेनोनाश्चक्रविकला न पूर्यन्ते तास्तत्र क्षिप्त्वा यदि भागो ह्नियते तदा लब्धिः सरूपा लभ्यते । अतस्तदेव विकलाशेषम्। विकलाशेषेण कुदिनेभ्यो न्यूनेन भवितव्यम् । एवं यज्ज्ञातं तत् किञ्चिदधिकमपि भवति ॥ तदसत् । उद्दिष्टग्रहस्य खिलत्वात् । १७-२१ ।

 वा० वा०--राश्यादिग्रहाद्विकलावशेष विकलावशेषादहगंणसाधनं च विवक्षुरेकवर्णबीजाद्ग्रहज्ञानार्थमुदाहरणमाह—लिप्तार्द्धमिति ।

 अत्र कलाप्रमाणं यावत्तावत् । या १ लिप्ताद्ध दशयुग्भवन्ति विकला इति । विकलाया 3 रु० २० कला विकलानां वियोगस्त्रियुग्भागा: या १ रु० १४ भागदल गृहाणि या है रु० १४ राश्यंशकला विकलायोगः या : रु० २ खत्रीन्दुतुल्य इति समशोधनेन लब्धं यावत्तावन्मानं ५८ उत्थापनेन जातो राश्यादिग्रहः ॥११॥२२॥२८॥३९॥

 राश्यादिग्रहादेव भगणशेषविकलाशेषज्ञानमाह-राश्यादेरिति। 'निरग्रचक्रादपि। कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगादिति' यत्पूर्वं प्रतिज्ञातं तदिदमुक्तम् । ‘द्युचरचक्रहतो दिनसञ्चय: क्वहहृतो भगणादिफल ग्रहः' इत्यनेन पूर्व या लब्धिस्ते कल्पगतभगणाः । शेषं तद् भगणशेषमिति प्रसिद्धम् । इदं राश्यानयनार्थं द्वादशभिर्गुणनीयम् । लवानयनार्थ चक्रांशैर्गुणनीयम्। कलानयनार्थ चक्रकलाभिर्गुणनीयम्। सर्वत्र क्वहैभाज्यम्।

 एवं विकलानयनार्थ भगणशेष चक्रविकलाभिर्गुणनीयम्। क्वहैभाज्यं लब्ध राश्यादिग्रहविकलाः स्युः । शेषं विकलावशेषं स्यात् ।

 अत्र विलोमगणितेन राश्यादिग्रहविकलाः क्वहगुणा विकलावशेषयुताश्चक्रविकलिकाभक्ता भगणशेषमिति स्पष्टम् ।

 प्रकृते विकला शेषाज्ञानाद्राश्यादिग्रहविकलासुदृढकुदिनगुणासु चक्रविकलिका भक्तूासु यल्लब्धं तद्रूपयुतं भगणश्शेषमिति कल्पितम् । तदा शेषोनहर एव विकलाशेषमिति स्यात् ॥

 कथमन्यथा विकलाशेषक्षेपमन्तरेण चक्रविकलाभिर्भागे यल्लब्ध रूपयुतं सद्भगणशेष स्यात्। दृढकुदिनगुणभादिग्रहविकलाभ्यश्चक्रविकलाभिर्भागे यच्छेष तच्चक्रविकलाभ्यः शोध्यं शेषोनहरः स्यात् । तच्छेषशेषोघ्नहरयोगस्य चक्रविकलिका तुल्यत्वादूपयुतं केवललब्धं भगणशेषमित्युक्तम्। ईदृशे। राश्यादिग्रहे संभुवति शेषोनहर। तुल्यमपि विकलाशेषमिति भावः । भाज्यहारक्षेपाणां पुनरपवर्त्तनायोग्यत्वं दृढत्वम् । येन केनापि नापवर्तन्ते तत्क्षीयन्त इत्युक्त बुद्धिवलासिन्याम् ।

 प्रकृते कल्पकुदिनान्यपवर्तनीयानि सन्तीति दृढकुदिनानीत्युक्तम्।

 क्वहाधिके विकलाशेषे स खिल इत्युक्तम् । अत्र कल्पकुदिनानामपर्वात्ततत्वेन चक्रविकलाभ्यो न्यूनत्वसंभवाद् विकलाशेष क्वहाधिकमपि भवति। अखिले तु विकलाशेषाद् द्युपिण्डसाधनं ·‘कल्प्याथ शुद्धिविकलावशेषं *षष्टिश्च भाज्यः कुदिनानि हारः’ इत्यादिना सुगमम् । ۔”


१. बी० कु० ३७ २लो० ।