पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/534

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९२
सिद्धान्तशिरोमणी गोलाध्याये

राश्यादेर्विकला दृढ़कुदिनगुणाश्चक्रविकलिकाभत्ताः ।
शेषत्यागे लब्धं रूपयुतं भगणशेषं स्यात् ।। १८ ।।
शेषोनहरो विकलाशेषं तस्मिन् कहाधिके ज्ञेयः ।
स खिल: खेटस्त्वखिले विकलाशेषाद् द्युपिण्डो वा । १९।
दृढभगणा येन गुणाश्चक्राग्रोना दृढकहैः शुद्धाः । तः
स द्युगणो दृढकुदिनयुतस्तावद्यावदीप्सितो वारः ॥ २० ।।

 उदाहरणम्- -

चक्राग्रं शशिनः खखाभ्रगगनप्राणर्तुभूमिः १६५० ००० हृतं
शुध्येच्चेन्न खिलं फलं कृतगुणाष्टज्ञाहिनागा ८८६८३४ हतम्।
विश्वाग्न्यङ्गशराङ्ककै ९५६३१३ श्व विभजेत् स्याच्छेषमहां गण
स्तावत् तत्र हरं क्षिपेदभिमते यावद्भवेद्वासरे ॥ २१ ।।

 वा० भा०-लिसार्ध दशयुगित्यत्र लिसाप्रमाणं यावत्तावत् १ प्रकल्प्योत्तविधि कृत्वाद्यबीजक्रियया ज्ञातः शशी ११ ॥ २२ ॥ ५८ ।। ३९ । अस्य भगणानां कुदिनानां चापवर्तः १६५०००० ॥ वृढ़भगणाः ३५००२ । दृढक्बहाः ९५६३१३ । जातोऽहर्गणः २५७.१५१ । अयं जातः शनिवासरे । द्विगुणे क्षेपे क्षिसे जातः सोमवासरे २१६९७७७ । षड्गुणे क्षिसे जातः शुक्रवासरे ५९९५०२९ । ससगुणे क्षिसेऽनेकधा सोमवासरे २१६९७७७ । वा ८८६३९६८ । वा १५५५८१५& इत्यादि । अथवा शुक्रवासरे ५९९५०२६ । वा १२६८&२२० वा १९३८३४११ इत्यादि । एवमन्येषां ग्रहाणां स्थिरकुट्टकः कार्यः ॥

 अत्र वासना। भगणशेष चक्रविकलाभिर्यदि गुण्यते क्वहैविभज्यते तदा विकलात्मको ग्रहो लभ्यते । शेष विकलाशेष स्यात्। अतो विलोमविधिना भगणशेषानयनम् । राश्यादेविकलाः १२७. ७१& । दृढकुदिनैः ९५६३१३ गुणिताश्चक्रविकलाभिः १२९६००० भक्ताः । लब्धम् ९३७६५८ । शेषम् ३३१०४७° । शेषत्यागे लब्धं रूपयुतमतः कृतम् । यतो विकलाशेषं क्षिप्त्वा चक्रविकलिकाभिर्भाज्याः । तद्विकलावशेषमज्ञातम् ।


१. अत्र श्रीमo देव:--

 चक्रविकलिकाः खेचरमगणैर्निहता भवेद्भाज्यः ।
विकलाशेष शुद्धिहार: कुदिनान्यतश्च लब्धिगुणौ ॥
सक्षेपौ ग्रहविकला गतभूदिवसा भवन्ति तौ क्रमशः ।
इष्टघ्नक्षेपयुतावेतौ स्यातामनेकधा चैवम् ॥

२. अत्र बापूदेव:-

अनेन शेषेण ३३१०४७ हीनो हरः १२९६००० जातं विकलाशेषम् ९६४९५३ । अस्य `दृढकुदिनेभ्यः ९५६३१३ अधिकत्वादयं चन्द्रः ११ ।। २२ ।। ५८ ।। ३९ खिलः ।