पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/538

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९६
सिद्धान्तशिरोमणौ गोलाध्याये

 केवललब्धिभाजकघातात्मकं प्रथमखण्डं यावत् क्षेपतुल्यगुणकेन गुण्यते भाजकेन भज्यते तावत्केवलभाज्यजा लब्धिः क्षेपतुल्यगुणकगुणेव भवति भाजक तुल्यगुणdारनाशात् ।

 कुट्टके भाष्यो गुणकगुणः क्षेपसंस्कृतो भाजकभक्तः शुद्धयेदिति केवलभाज्य गुणकघातः क्षेपसंस्कृतो मुख्यभाज्यः स्यादस्यैव भाजकभक्तत्वात् ।

 मुख्यभाज्यस्य खण्डत्रयम् । केवलभाज्ये भाजकभक्ते या लब्धिस्तद्गुणभाजक गुणकशततुल्यम् । केवलभाज्ये भाजकभक्ते यच्छेषं तद्गुणगुणकतुल्यं द्वितीयम् । क्षेपतुल्यं तृतीयम् । खण्डत्रयेऽपि हरो भाजक एव ।

 अत्र द्वितीयतृतीयखण्डोत्थलब्धियोगस्य शेषोत्थलब्धिरिति नाम कृतम् । केवलभाज्यशेषे गुणकगुणे क्षेपसंस्कृते भाजकभक्ते शेषलब्धिः स्यात् । केवलभाज्यलब्धि गणकगणा प्रथमखण्डोत्थलब्धिः स्यात् । लब्ध्योर्योगो मुख्यभाज्यलब्धिः स्यात्।

 अत्र गुणकाज्ञानाल्लब्धद्वयमपि ज्ञातुमशक्यम् । तत्र यदि केवलभाज्यशष रूपमितं स्यात्तदा क्षयगतक्षेपे क्षेपतुल्य एव गुणकः स्यात् । रूपमिते भाज्यशेषे शेषोत्थं लब्धिः शून्यमितैव । प्रथमखण्डोत्थलब्धिस्तु केवलभाज्यलब्धिगुणितक्षेपतुल्या । लब्धि द्वययोगो मुख्यलब्धिः स्यादिति केवलभाज्यलब्धिस्तदधो निवेश्यः ।

 ‘क्षेपस्तथान्ते खमुपान्तिमेन स्वौर्वे हतेऽन्त्येन युते तदन्त्यं त्यजेदिति’ सम्यगुक्तम् ।

 भाज्यशेषे तु भाज्यशेषं येन गुण क्षेपसंस्कृतं भाजकभक्तं शुद्धयेत् सगुणकः लब्धिः शेषोत्थलब्धिरेव स्यात् । केवलभाज्यलब्धिगुणितभाजकतुल्येऽपि गुणस्त्वयमेव येन केनापि गुणितं शुद्धयेदेवेति नियमात् । एषु भाज्यहाक्षेपेषु यौ लब्धिगुणौ तावेव विपरीतौ विपरीतभाज्यहारक्षेपेषु भवतः । 'छेदं गुणं गुणं छेदमृणं स्वं स्वमृण मिति' विलोमगणितेन । तत्र भाज्यशेषेण भाजके हते विपरीते क्षेपे च कृते पूर्वानीत लब्धिगुणावत्र गुणलब्धी भवत इति सिद्धम् ।

 यदि केवलभाज्ये भाजकभक्ते रूपमितं शेषं न स्यात् । स्याद्यदि भाज्यशेषेण भाजके भक्ते रूपं शेषं तदाऽनेव क्षेपतुल्ये त्वधनक्षेपे क्षेपमितो गुणकः स्यात् । शेषो त्थलब्धिरत्र पूर्वंन्यायेन शून्यमितैव ।

 भाज्यशेषेण भाजके भक्ते या लब्धिः सा क्षेपगुणा पूर्वखण्डलब्धिरत्र । शेषोत्थ लब्धेः शून्यतया मुख्यलब्धिरियमेवात्र । भाजकतुल्ये भाज्ये भाज्यशेषतुल्ये भाजके या मुख्यलब्धियंश्च गुणकस्तावेव विपरीतौ भाज्यशेषोत्थतुल्ये भाज्ये भाजकतुल्य एव भाजके गुणकलब्धी भवतः । भाज्यशेषोत्थलब्धिरत्र क्षेपतुल्या।

 भाज्ये भाजकभक्ते या लब्धिः सा गुणकगुणा पूर्वखण्डोत्थलब्धिः स्यात् । इयं क्षेपयुता मुख्यलब्धिः स्यात् । तस्माद्राज्ये भाजकभक्ते या लब्धिः सा तदधो निवेश्या। तदधः क्षेपोऽन्त्ये खमिति निवेश्यम् । अस्य निवेशनविशेषस्य वल्लीति नाम स्थापितम् । ततः स्वोर्वे हतेऽन्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशि युग्ममिति प्रोक्तम् |


१. ली० कु० ४ ३लो० ।