पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/526

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८४
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० भा०-उदाहरणे ग्रहाणां यथा यथा योगोऽन्तरं वाभिहितं तथा तथा ग्रहयुगभगणानामपि कार्यम् । यदि शोध्यं न शुध्येत् तदा कुदिमानि बत्त्वा शोधयेत । तथा गुणकैर्गुणने योगे च कृते यदि राशिः कुविनाधिको भवति तदा कुदिनेस्तक्ष्यः । एवं योगान्तरादि यद्भवति तेन दृष्टप्रहस्य युगभगणा एकत्रोः कार्याः । अन्यत्र तेभगस्तदूनं कार्यम् । एवं कृते प्रथमस्थाने यदवशेषं तेऽन्यभगणा भवन्ति । यद्यन्यभगणा उदाहरणे धनं कृताः । यदि ऋ णं कृतास्तदा द्वितीयस्थाने यक्षवशेषं तेऽन्यभगणा इति ।

 अत्रोपपत्तिः--यद् ग्रहाणां योगवियोगादिकं तत् तद्युगभगणानां कृतम् । तथाविधेभंग णेरहगणाग्रहवत् फलं आनीते तद्योगवियोगाबिकमुत्पद्यते । यत्र शोध्यं शुद्धघति तत्र यत् कुदिनानि दत्तानि तत्रेयं युक्तिः । येभंगरौर्यादृशो ग्रहो राश्यादिको भवति तेरेव कु दिनाधिकैस्तादृश एव राधयाविकः स्यात् । भगणशेषयोस्तुल्यत्वात् । कितु तङ्गणा अधिका आगच्छन्ति ते परित्यक्ताः प्रयोजनाभावात् । उदाहरणं हि राश्यादिग्रहाणामेव । अनयैव युक्त्या यत्र गुणनाविके कृते कुविनाधिकरवं दृश्यते तत्र राशिः कुदिनेस्तक्ष्य इत्युक्तम् । अथैव योगवियोगादिके ये भगणा जातास्तेऽन्यभगणेहनाः सन्तो दृष्टग्रहभगणा भवन्ति । दृष्टभगणैरूना अन्यभगणा भवन्तीति विलोमविधिः । यदान्यभगणैर्युक्ताः सन्तो वृष्टभगणा भवन्ति तदा तेरेवोना दृष्टभगणा अन्यभगणा भवन्तीत्यर्थात् सिद्धम् ।

 अय बालावबोधयं कल्पितभगणैरुदाहरणम् । तत्र रवेर्भगणास्त्रयः ३ । चन्द्रस्य चत्वारः ४। भौमस्य पञ्च ५ । गुरोः सप्त ७ । शनेनैव ९ । कृदिनानि षष्टिः ६० । त्रयोविंशति २३ महर्गणं प्रकल्प्य साधिता प्रहाः ; चं मं. गु. श'. । अत्र द्वाद १ १ २४ १ २ ६ १ २ २ शगुणोऽर्कः । एकगुणश्चन्द्रः । षड्गुणो भौमः । र. ९८ । चं. १६ । मं. ६ । एषां योगः १० । ० । अमुं त्रिगुणाद्गुरोवशोध्य २४ । १८ शेषम् २ । १८ । अथाज्ञातभगणज्ञानार्थं ग्रहयुगभगणानां यथोक्ते योगे वियोगे च कृते . जातम् ११। ०। एतच्छनिभगणैर्नवभिरूनीकृतं जातावन्यभगण २ । यद्यन्यभगणा ऋणं तद्भगणद्वयसंभूतो ग्रहः ९ । ६ । अस्मिन् पूर्वस्मात् २। १८ शोधिते जातः शनिः ५ । १२ । यद्यज्ञातः खेटः स्वं तदा शनिभगणेषु ९ कुदिनानि ६२० प्रक्षिप्यैकावश ११ विशोध्य जाता अन्यभगणाः ५८। एभ्यो जातो ग्रहः २ । २४ । अनेन पूर्वशेषे युते जातः शनिः ५ । १२ । ७-९ ।।6

 वा० वा०--अथ पाटीगणितान्तर्गतविलोमगणितविषयं प्रश्नमाह-चञ्च चन्द्रगुण इति ।

 प्रश्नभङ्गार्थं सूत्रमाह-उद्देशकालापवदेवेति । अज्ञातवेट इति ।

 अत्र शेषं केनचिदपरखेचरेणोनं शनियंदि भवति तदा शनिनोनं शेषमपरखेचरः स्यात् । यदि च शेषमपरखेचरयुतं शनिर्भवति तदा शेषोनः शनिरपरखेचरः स्यात् । अत्र कल्पगतकालकीर्तनाद् ग्रहभगणानामेव योगान्तराखं विहितम् । मध्यमग्रहानयने कल्पकुदिनानि हरा इति क्वहाः प्रदेयाः । अविशुद्धशुद्धौ क्वकैश्च तथ्यं कुदिनाधिकं चेदित्युक्तम् । त(त्व) तनूकरणे ॥ ७-९ ।