पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/525

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८३
प्रश्नध्याय:

  वा० वा०-पाटीबीजयो: स्वरूपमाह-अस्तीति। त्रैराशिकमात्र पाटीबुद्धिरेव बीजम ।

 ननु सूर्यादिप्रणीतशास्त्रेषु कथ पाटीबीजगणिते न प्रतिपादिते। मनुष्यकृती कथं तत्प्रतिपादनमित्यत आह-किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते । इति मया सुरप्रभूतीनां सुबुद्धीनां किं नामाज्ञातमस्ति पाटीकुट्टकवर्गप्रकृतिबीजप्रतिपाद्यविषयेषु । अतस्त्वार्षसिद्धान्तेषु तानि न प्रतिपादितानि ॥' तन्मूलोत्तरप्रश्नाप्रतिपादनं च । मनुष्यास्तदपेक्षया मन्दबुद्धयोऽतस्तद्बुद्धिविवृद्धये पाटीबीजगणिताद्यमुच्यते । एतदेव स्पष्टयति ।

 वर्गं वर्गपदमिति । नैव वर्णात्मकमिति । एतदेव बीजे विशदीकृतम् । बीजं मतिविविधवर्णसहायिनीत्यादिना । मनुष्येष्वपि ये पाटीबीजकुट्टकवर्गप्रकृतिगोलयन्त्रग्रन्थविमलमतयस्ते तु प्रश्नश्रवणमात्रेण तदुत्तरं प्रतिपाद्यन्ते । ये तु मन्दबुद्धयो यथा श्रुतार्थग्राहिष्णस्तदर्थमत्रोत्तराणि प्रतिपाद्यन्त इति भावः । पाटीबीजवर्गप्रकृतिकुट्टकोदाहरणानि ग्रहगणितप्रतिपाद्यावमशेषादिराशिपराणि वेद्यानि । ग्रहगणितगोलयोः प्रतिपादितप्रश्नानामत्र पुनः प्रतिपादनं केवलप्रश्नाध्यायमात्रपाठकोपयोगायेति भाष्ये वक्ष्यते ॥ ३-५ ॥

अथ प्रश्नानाह-

अहर्गणस्यानयनेऽर्कमासाश्चैत्रादिचान्द्रेगणकान्विता किम् । कुतोऽधिमासावमशेषके च त्यक्तके यतः सावयवोऽनुपातः ।। ६ ।।
वा० भा०-अयमस्य भङ्गश्व पूर्व व्याख्यात एव । ६ ।

 वा० वा०-कुतोऽधिमासाऽवमशेषकेत्युक्ते इति प्रागुप्तप्रश्नमनुवदति-अहगणस्यानयनेऽर्कमासा इति । अस्योत्तरं गोले प्रतिपादितं दशविधिरित्यादिना ॥ ६ ॥

अथान्यमाह-

चन्द्रश्चन्द्रगुणो रवी रविगुणश्वाड्रारकोऽङ्गाहत
स्तद्योगो गुणसंगुणात् सुरगुरो राश्यादिकात् पातितः ।
 शेषं चापरपर्ययोत्थखचरेणोनं युतं वा शनिः
 स्यात् केऽन्ये भगणा वदेति तव चेदस्ति श्रमो मिश्रके। ७ ।।


अथास्य भङ्गः-

उद्देशकालापवदेव कार्य योगान्तराद्य ग्रहपर्ययाणाम् ।
दृष्टस्य चक्राणि तदूनितानि तैरूनितं तत् क्रमशो विधेयम् ।। ८ ।।
 अज्ञातखेटः स्वमृणं कृतश्चेदज्ञातचक्राणि भवन्ति तानि ।
 कहाः प्रदेया अविशुद्धशुद्धौ कहैश्च तत्क्ष्यं कुदिनाधिकं चेत् ॥ ९ ।।