न्धात् । तान् कान् यानाकण्यपि तस्य सुवर्णवर्णवदनं क्षणाद्वैवर्ण्यमेति । तस्य कस्य यः प्रौढयात्वखर्वकुगर्वपर्वतशिरोऽधिरूढः । प्रश्नप्रतिपादनप्रयोजनमाह—विचित्रभङ्गिचतुरप्रीतिप्रदानायेति । प्रश्नानमून्प्रपठत: कि फलमित्यत आह-प्रायश: प्रश्नैर्विना गणक: प्रौढ़सभासु प्रौढ़ि नैति। अतस्तान् वच्मीति सम्यगुक्तम् ।
केवलप्रश्नकथनं नोचितमिति तदुतराण्यपि वक्ष्यामीति प्रतिजानीते-पाटयेति । तेषां प्रश्नानामुत्तराणि पाटच्या कथितानि बीजेन च कथितानि वर्गप्रकृत्या कथितानि कुट्टकेन च कथितानि गोलग्रन्थेन कथितानि यन्त्रैश्च कथितानि । बालावबोध इति निमित्तसप्तमी तेन बालावबोधार्थं कतिचिदुत्तराणि पुनर्वक्ष्यामीत्यर्थः ।
आचायेंण तु पूर्व ग्रहगणितं कृतं ततः पाताध्यायादनन्तरं पाटीकुट्टकवर्गप्रकृतिबीजसूत्राणि संक्षपेण विरचितानि । ततो गोलाध्याय ईषदीषदिह मध्यगमादावित्यन्तं विरचितस्ततो यन्त्राध्यायस्तदनन्तरमयं प्रशनाध्यायो रचित इति प्रशनोत्तराणि पाटच्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशाण्यपि सिद्धान्तशिरोमणिपुस्तकानि । ईदृशं सिद्धान्तशिरोमणिपुस्तको विरचय्योदाहरणयोजनासहितानि बीजपुस्तकानि सूत्रविशेषसहितानि विरचितानि । अत एवानेकवर्णसम्बन्धिमध्यमाहरणे इदं किल सिद्धान्ते मूलसूत्रं संक्षिप्योत्तमत्र किञ्चिद् विस्तार्योच्यत इत्युक्तम् ।
एवं लीलावतीबीजपुस्तक विरचय गोलाध्यायभाष्यं रचितम्। तदनन्तर ग्रहगणितभाष्यं विरचितमित्याचार्यग्रन्थादेवोपलभ्यते । कुट्टकविवृतावाचाचार्येणोत्तमस्योदाहरणानि प्रश्नाध्याय इति तत्सज्ञच्छते । तस्मादुत्तराणि पूर्वमुतानि प्रश्नास्त्वत्रोच्यत इति स्फुटं प्रश्नाध्यायत्वमस्य । अत्र यान्युत्तराणि कथ्यन्ते तानि तु बालावबोधमात्रप्रयोजनानि न विद्वज्जनावबोधार्थानि स्पष्टमुक्तम्। प्रश्नास्तु सर्वोपयोगायात्र प्रतिपाद्यन्त इति महाविशेषः ॥ १-२ ।।
अथ बुद्धमतः प्रशंसामाह
अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः । |