पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/523

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८१
प्रश्नध्याय:


किविशिष्टाम् । न अकोमलाम् । कोमलाम् । कर्थभूताना तेषाम् । उपगताना तीरविलासिनामित्यर्थः । केषाम् । परभृतसरसाम् ॥ पराणि च तानि भूतानि पूर्णानि सरांसि तेषां परभृतसरसाम् । कै: । पयोभिः । कर्थभूतेः । साम्बुजै: । अथवा । उपगतानां नगरनिकटवर्तिनां सरसों सत्कसंबन्धिनो वयः सत्कवयस्तेषाम् ।

 अथ किमेव विधयात्र ग्रन्थे प्राकृतिकानां गणकानामित्याशङ्कयोच्यते। नहि मन्दार्थमेव ग्रन्थ आरभ्यत इत्याह । इह कवीनां द्व गती । इयमिय वा। एतत्परोऽयं श्लोकः । रमन्ते । के कृतिनो विद्वांसः । क्व । रम्यसारस्वतौघे । सरस्वतीनदीप्रवाहे । सरस्वत्याः सर्वगतत्वाद्गङ्गाद्या अपि सरस्वत्य उच्यन्ते । अत्र किंविशिष्टा उपलक्षिताः । कैः सुवृत्तैः ।। रम्याचारैः । पुनः केः । आश्लेषिताङ्ग: । अवलिसाङ्गः । केन । नदीतीरपङ्केन । न केवलं तेन । नान्ारुचिरसिकतया वा । कि कुर्वन्तः । तथा रमन्ते । अधरयन्तः । अधरीकुर्वन्त । किम् । त्रिदिवम् । अस्मादप्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयोऽथंः । नानारुच्या रसिकत्वं रसिकता तयेह रम्यसारस्वतौघे वाक्यसमूहे चतुरवचननिचये कृतिनो रमन्ते । कः कृत्वा । सुवृत्तैः श्लक्ष्णैः श्लोकैः । मालिनीप्रभृतिभिः । किविशिष्टैः । श्लेषिताङ्गः । श्लेषोक्तियुक्तचरणैः । पादावृत्तिप्रभृतिभिः । किं कुर्वन्तः । त्रिदिवमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं मत्वेत्यर्थः । शेषं स्पष्टम्। १-१५ ।

 इति श्रीभास्करीये सिद्धान्तशिरोमणिवासनाभाष्ये गोलाध्याये मिताक्षरे ऋतुवर्णनं ।

समासम्। अत्र ग्रन्थसंख्या ६० ॥

 वा० वा०-अथ ऋतुव्यावर्णनव्याजेन स्वकवितां प्रदर्शयति पञ्चदशवृत्तैः । अत्र विषमोऽथर्गे भाष्यात् स्पष्टः ॥ १-१५ ।।



अथ प्रशनऽध्यायः

 अथ प्रश्नाध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजन तत्प्रशस चाह

प्रौढिं प्रौढसभासु नैति गणकः प्रश्नैर्विना प्रायशोऽ
तस्ताम् वच्मि विचित्रभङ्गिचतुरप्रीतिप्रदानाय यान् ।
आकण्र्यापि सुवर्णवर्णवदनं वैवर्ण्यमेति क्षणात्
तस्याखर्वकुगर्वपर्वतशिरः औठ्याधिरूढ़ोऽत्र यः । १ ।।
पाट्या च बीजेन च कुट्टकेन वर्गप्रकृत्या च तथोत्तराणि ॥
गोलेन यन्त्रैः कथितानि तेषां बालावबोधे कतिचिच्च वच्मि ।। २ ।।
वा० भा - स्पष्टार्थम्। १-२ ।
वा० वा०-श्रीरस्तु। श्रीवरदमूतिर्जयति ।

 अथ प्रश्नाध्यायो व्याख्यायते। तत्र तदारम्भप्रयोजनमाह प्रौढिमिति । तान्प्रश्नान् वच्मीति क्रियाकारकयोजना । तच्छब्दो यच्द्दब्दमपेक्षते यत्तयोनित्यसम्ब सि०-६१