सरसमभिलपन्ती सत्कवीनां विदग्धानव |
वा० भा०-वर्षाकाले हृदयस्थमदयं दयित प्रति विरहिणी किलैव बूते । हे दयित निर्दयास्मिन्नप्यागते काल एत्यागत्य कि न सिञ्चसि । काम् । मा इति माम् । कर्थभूताम् । मदनदहनखिन्नाम् । कामाग्निदाहाकुलाम् । पुनः किविशिष्टाम् । दीनाम् । केन । आत्मद्रुग्वारिणा स्वदृक्सलिलेन । कासा संबन्धिनि काले । नदीनाम् । कर्थभूतानाम् । परिमलबहलानाम् । परि समन्तात् । मलबहलानाम् । न केवलं तासाम् । मालतीनमपि । परिमलबहलानामामोदबहलानाम्। न केवल तासामपि । लतीनामिति रतीनाम् । तासा च परिमलबहलानाम् । तत्र परस्य भाव: परिमा । परिम्णो लवः परिमलवः । तं हरन्तीति परिमलवहराः । तासा परिमलवहराणाम् ॥ रलयोर्बवयोश्चैक्यस्य श्लेषे तु गृहीतत्वात् । मानिनीनां मानिनां वा कामातुराणां मानभङ्ग न तुच्छत्वमापादयन्तीनां रतीनामित्यर्थः ।
अथ कविवर्णनम्। का सत्कवीनां विदग्धा भारती वाणी कस्य हृदयं न हरति। अपि तु सर्वापि सर्वस्य । अनवरतरमणीया। सततं रम्या। कि कुर्वती । अभिलपन्ती। कम्। अमितार्थम् । असंख्यमर्थम् । किविशिष्टम् । सरसम् । सा च कस्य न हरति । किम् । अथ हृदयं वा । या। का। नवरत रमणी। अपूर्वसुरता युवती । किविशिष्टा । भारती भारतसम्बन्धिनी नर्तकस्त्री । कर्थभूता सती । कामिता । पुनः किविशिष्टा । सानुरागा । कि कुर्वती । सरसमभिलपन्ती । विदग्धा ।
कः ना नरः सत्कवीनां वाचमाकर्ण्य हृतचित्तो न भवति । किंविशिष्टाम् । अमलां निदूषणाम् । पुनः कथंभूताम् ॥ सततं रम्याम् । पुनः किंविशिष्टाम् परभृतसरसाम् । परभृतस्य कोकिलस्येव सरसां रसवतीम् ॥ अथ द्वितीयोऽर्थः । के उदके वयः पक्षिणः सन्तश्त ते कवयश्च सत्कवयो हंसाद्या जलपक्षिणः । तेषां वाचं सततं रम्यामाकण्र्यं कः ना हृतचित्तो न भवति ।