पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/521

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७९
ऋतुवर्णनम्


निदाघदाहार्तिविघातहेतवे वनाय कामोच्छितचूतकेतवे ।
ब्रजन्ति वापीजलकेलिलालसाः शुची रतिस्वेदगलजलालसा: ।। ४ ।।

मदनदहनखिन्नामागतेऽप्येत्य काले
परिमलबहलानां मालतीनां नदीनाम् ।
अदय दयित सिञ्चस्यात्मदृग्वारिणा किं
परिमलबहलानां मा लतीनां न दीनाम् । ५ ।
उच्चैर्विरौति हि मयूरकुलं यदम्ब
 मन्दं कदम्बमकरन्दविमिश्रितश्र ।
वातः प्रवाति पतिरेति न तेन
 मन्ये निर्धाणनिघृणविकर्णविहृत्वमस्य। ६।
एवं विधं विरहिणी विरहेण खिन्ना
 भिन्नाञ्जनच्छविघने गगने घनतों ।
मत्वा प्रियं तमदयं हृदयं प्रविष्ट
 ब्रते सपेशलमलं परिहासमिश्रम्। ७ ।।
स्वतनुजवनराज्या पुष्पवत्याश्लिषन्त्या
 ह्यनुचितकृतसङ्गोस्मीति शैलोऽनुतप्तः ।
निशि शशिकरचश्वन्निझरैरश्रुकल्पै:
 शरद हृदिजखेदस्वेदवान् रोदितीव ॥ ८।
सहस्यकाले बहुशस्यशालिनी चितामवश्यायकमौक्तिकोत्करैः ।
प्रहृष्टपुष्टाखिलगोकुलामिलां विलोक्य हृष्यन्त्यधिकं कृषीवलाः ॥ ९ ।।
अरुणनीलनिमीलितपल्लवं प्रचुरफुल्लसमुल्लसनै: श्रियम् ।
वहति कांचन काश्वनकानन नवतरां नितरां शिशिरागमे ॥ १० ।
अपटुतिग्ममरीचिमरीचिभिर्नहि तथा शिशिरे शिशिरक्षतिः ।
निशि यथोष्मलपीनघनस्तनी भुजनिपीडनतः स्वपतां नृणाम् । ११।
ऋतुव्यावर्णनव्याजादीषदेषा प्रदर्शिता
कविता तद्विदां प्रीत्यै रसिकानां मनोहरा । १२ । ।