पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/520

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७८
सिद्धान्तशिरोमणौ गोलाध्याये



एवं बहुधा यन्त्र स्वयंवह कुहकविद्यया भवति ।
नेदं गोलाश्रितया पूर्वोक्तत्वान्मयाप्युक्तम् ।। ९८ ।।

 वा० भा० -स्पष्टार्थमिदम्। अत्र भ्रमण कालानुसारं स्वबुद्ध्वा विधातव्यमित्य ध्याहार्यम् ॥ ५७-४८ ॥

 इति श्रीभास्करोये सिद्धान्तशिरोमणी वासनाभाष्ये मिताक्षरे गोले

यन्त्र्यायः । अत्र ग्रन्थप्रसंख्या ३७५ ॥

 वा० वा०-अधोरन्ध्रनलमिति । अनेन सापेक्षयन्त्राणि ग्राम्याणीत्युक्तम्। मयूरयन्त्रब्रह्मचारियन्त्रशरवेधयन्त्रवधूवरयोगयन्त्रमेषाजयुद्धयन्त्रशङ्खवादनयन्त्रघण्टापटहादिवादनयन्त्रवानरप्यन्त्रघटीयन्त्रहंसयन्त्राद्यानि स्वयंवहगोलयन्त्राद्यानि च बहुधा यन्त्राणि भवन्तीत्याह—

 एवं बहुधायन्त्र स्वयं वह कुहकविद्यया भवति ।

 नेदं गोलाश्रितयेति । उज्झितगोलाश्रयाणां स्वयंवहयन्त्राणामिह प्रतिपादनं श्रीमदाचार्यस्य नोचितमित्यत आह-पूर्वोत्तत्वान्मयाप्युत्तमिति । दिनगतकाला वयवज्ञानसम्पादकत्वमेतेषामपि विद्यत इति यथापूर्वरुक्तानि तथा मयाप्युक्तानीत भाव||५७-५८|

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्,
 भट्टाचार्यसुसाद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
 यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके,
 सत्सिद्धान्तशिरोमणेरयमगात् यन्त्राधिकारः स्फुटः ॥

अथ ऋतुवर्णनम्

अथ ऋतुवर्णनमाह--

उत्फुल्लन्नवमल्लिकापरिमलभ्रान्तभ्रमद्भ्रामरे
रे पान्थाः कथमव्यथानि भवतां चेतांसि चैत्रोत्सवे ।
मन्दान्दोलितचूतन्तनघनस्फारस्फुरत्पल्लवै
रुद्वेलन्नववल्लरीष्विति लपन्त्युच्चैः कलं कोकिलाः ।। १ ।।
स्वकुसुमैर्मलिनमिव मालतीमवहसन्ति वसन्तजमल्लिकाः ।
उपवनं विनिवारयतीव ताः किसलयैर्मलयानिलकम्पितैः ।। २ ।।
विहाय सौधं तृणकुङयमण्डपे प्रसिच्यमाने सलिलैः समन्ततः ।
शुचौ रमन्ते विरलं विलासिनः प्रियाजनै: सीकरसेचनोन्मुखाः । ३ ।।