पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/519

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७७
ग्रन्त्राध्याय:


 वा० वा०-अथ कौतुकार्थ स्वयं वहयन्त्रमाह'-लघुदारुजसमचक्रे समसुषिरारा इति । रसपूर्ण तच्चक्रमिति। स्वयंवहान्तरमाह-उत्कीयेंति । तदुपरीति। पिहितछिद्रमिति ॥ ५०-५२ ।।

 अथान्यदाह--

ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ॥ ५३ ।।
 एक कुण्डजलान्तर्द्धितीयमग्रं त्वधोमुखं च बहिः ।
 युगपन्मुक्त चेत्। क नलेन कुण्डाद्वहि: पतति । ५४ ॥
 नेम्यां बद्ध्वा घटिकाश्चक्र जलयन्त्रवत् तथा धार्यम्।
 नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ।। ५५ ।।
 भ्रमति ततस्तत् सतत पूर्णघटीभिः समाकृष्टम् ।
 चक्रच्युतं तदुदक कुण्डे याति प्रणालिकया। ५६।

 वा० भा०-ताम्रादिधातुमयस्याङ्कुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्यदग्रं बहिरधोमुख चैकहेलया यदि विमुच्यते तदा भाण्डजल सकलमपि नलेन बहिः क्षरति ॥ तद्यथा ॥ छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिरस्यैकमग्र भाण्डाद्बहिरधोमुख द्रुतं यदि ध्रियते तदा भाण्डजल सकलमपि नलेन बहिर्याति। इर्द कुक्कुटनाडीयन्त्रमिति शिल्पिना हरमेखलिना च प्रसिद्धम् । अनेन बहवश्चमत्कारा: सिद्ध्यन्ति । अथ चक्रनेम्यां घटीर्बद्ध्वा जलयन्त्रवत् द्वयाधाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं तद्भ्रमत् केन निवार्यते । अथ चक्रच्युतस्योदकस्याधःप्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैरपेक्ष्यम् ।। ५२३-५६ ।।

 वा० वा०-अन्यदप्याह-ताम्रादिधातुमयस्येति । एकमिति । नेम्यामिति । भ्रमतीति । वासना भाष्ये स्पष्टमिदम् ॥ ५२३-५६ ।

 इदानीमन्येषां स्वयंवहमुपहसलाह--

यदधोरन्ध्रनलं तत् सापेक्षत्वात् स्वयंवहं ग्राम्यम् ।
 चतुरचमत्कारकरी युक्तिर्यन्त्र' नहि ग्राम्यम् ॥ ५७ ।।


. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुसः--

लघुदारुमयं चक्र समसुषिरारान्तरपृथगराणाम् ।
 अर्धेन रसेन पूर्णे परिधौ संश्लिष्टकृतसन्धिः ।। ५३ ।।
 तिर्यक्कीली मध्ये द्वयाधारस्थोऽस्य पारदो भ्रमति ।
 छिद्राण्यूध्वमघोऽतश्चक्रमजस्रं स्वयं भ्रमति :। ५४ ।।

अपि च सिद्धान्तसुन्दरे ज्ञानराजः--

नृपतिचित्तचमत्कृतिकारक नवतरामलयन्त्रचयं ब्रुवे।
जलतलानलिका कुशमामुखोद्गतसमीरवशेन सदावहा ।