वा० वा०-अथ कौतुकार्थ स्वयं वहयन्त्रमाह'-लघुदारुजसमचक्रे समसुषिरारा इति । रसपूर्ण तच्चक्रमिति। स्वयंवहान्तरमाह-उत्कीयेंति । तदुपरीति। पिहितछिद्रमिति ॥ ५०-५२ ।।
अथान्यदाह--
ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ॥ ५३ ।। |
वा० भा०-ताम्रादिधातुमयस्याङ्कुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्यदग्रं बहिरधोमुख चैकहेलया यदि विमुच्यते तदा भाण्डजल सकलमपि नलेन बहिः क्षरति ॥ तद्यथा ॥ छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिरस्यैकमग्र भाण्डाद्बहिरधोमुख द्रुतं यदि ध्रियते तदा भाण्डजल सकलमपि नलेन बहिर्याति। इर्द कुक्कुटनाडीयन्त्रमिति शिल्पिना हरमेखलिना च प्रसिद्धम् । अनेन बहवश्चमत्कारा: सिद्ध्यन्ति । अथ चक्रनेम्यां घटीर्बद्ध्वा जलयन्त्रवत् द्वयाधाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं तद्भ्रमत् केन निवार्यते । अथ चक्रच्युतस्योदकस्याधःप्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैरपेक्ष्यम् ।। ५२३-५६ ।।
वा० वा०-अन्यदप्याह-ताम्रादिधातुमयस्येति । एकमिति । नेम्यामिति । भ्रमतीति । वासना भाष्ये स्पष्टमिदम् ॥ ५२३-५६ ।
इदानीमन्येषां स्वयंवहमुपहसलाह--
यदधोरन्ध्रनलं तत् सापेक्षत्वात् स्वयंवहं ग्राम्यम् । |
. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुसः--
लघुदारुमयं चक्र समसुषिरारान्तरपृथगराणाम् । |
अपि च सिद्धान्तसुन्दरे ज्ञानराजः--
नृपतिचित्तचमत्कृतिकारक नवतरामलयन्त्रचयं ब्रुवे। |