पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/527

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८५
प्रश्नाद्याय्:


अथान्यं प्रश्नमाहये

याताधिकामासहीनदिवसा ये चापि तच्छेषके
तेषामैक्यमवेक्ष्य यो दिनगणान् ब्रूतेऽत्र कल्पे गतान् ।
संश्लिष्टस्फुटकुट्टकोड्रटबटुक्षुद्रणविद्रावणे
तस्याव्यतविदो विदो विजयते शादूलविक्रीडितम्' । १० ।

क्क्अथास्य भङ्ग:

कृताटाष्टिगोब्ध्यब्धिशैलामरतुं
द्विप ८६३३७४४९१६८४ घ्ने सशेषाधिमासावमैक्ये ।
भवेद्वद्येकचन्द्राह १६०२९९८९९९९९९ भक्तकेऽवशेषं
गतेन्दुद्युराशिस्ततः सावनाद्यः ।। ११ ।।


वा० भा०-स्पष्टार्थम्।

१. अत्र बापूदेवोक्तः प्रश्नः--

 अधिमासावमशेषे ज्ञात्वा योऽहर्गणं वदेदाशु । संश्लिष्टस्फुटकुट्टकवेतृणामग्रणीः सः स्यात् ॥

अस्य भङ्गश्च --

व्व्ल्धिमासावमसङ्घयोगे भाज्ये च तच्छेषयुतौ च शुद्धी ।
कल्पेन्दुघस्रौघमिते हरे यो गुणी गतेन्दुयुगणो भवेत् सः ।!
सावनाहर्गणं तस्माद्गतसौरसमागणम् ॥ मासादिकं च विज्ञातुं शक्नुयाद्गणकः सुधीः ।

अत्र श्रीम० देवोक्तः प्रश्नः--

यदाऽधिमासावमशेषके च समे तदा कल्पगत वदेद्यः ।
तमेव मन्ये गणकाऽग्रगण्य शिरोमणि स्पष्टतरं स वेति ।

अस्योत्तरम्

द्विदेवाद्युग्निभूम्यश्वि २ १३७३३२ मितैश्चान्द्रदिनैः क्रमात् ।
भवेच्च शेषयोः साम्यं कल्पारम्भात् पुनःपुनः

अन्मयप्र२न:-

 लब्धाऽधिमासाः स्वाग्रण सहितास्ते यदा सखे । कल्पचान्द्राहतुल्याः स्युर्वद कल्पगतं तदा ॥

अस्य भङ्ग:-

कल्पाधिमासाः किल भाज्यराशिः शुद्धिस्तु रूपप्रमिताऽत्र कल्प्या ।
 व्येकेन्दुघस्रौघहरे गुणो यः स्यादिष्टचान्द्राहमितिः स एव ॥

 लब्धा दिनक्षया ये ते जशेषयुता यदा । समाः कल्पेन्दुधस्त्रैः स्युस्तदा कल्पगतं वद ।

अस्य भङ्गः--

भाज्यः कल्पावमानि स्याद्धारो व्येकेन्दुवासराः ।
रूपशुद्धौ गुणो यः स्यात् स वै चान्द्रगणो भवेत् ।