पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/515

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७३
यन्त्राध्याय:

 उदाहरणम्-

पञ्चशक्राङ्गला १४५ याष्टरष्टषाष्टदृ गुच्छुयः ।
षट् करास्तलवेधो दोः कोटिः सप्तदशाङ्गुला ।
अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः ८७॥ ।
वंशस्य यस्य तन्मानं चात्मवंशान्तरं वद ।।

 वा० भा०-यष्टिः १४५ । दृगुच्छुाय: ६८ । तलवेघेबाहुः ११४४ । कोटिः १७ ॥ .अग्रवेधे बाहुः ११६ । कोटिः ८७ । अत्र तलवेधेऽग्रवेधे वा ध्रुववद्यष्टयग्रमूललम्बयोरन्तरभूर्भुजः । एवं यथोक्तकरणेन लब्धमात्मवंशान्तरम् ५७६ । वंशौच्च्यम् ५०० ।।

 अत्रोपपत्तिः-अात्मवंशान्तरभूमिर्भुजः ॥ दृष्टद्युच्छायः कोटिः । दृष्टिवंशमूलयोर्बद्धं सूत्रं कर्णः । एतत्त्र्यस्रानुसारमेव यष्ट्या वेघेन त्र्यस्रमुत्पद्यते । तच्च लम्बान्तरभूर्भुजः । लम्बौच्च्यान्तरं कोटिः । यष्टिः कर्णः । अतोऽनेनानुपातः ॥ यद्यनया कोट्यायं भुजो लभ्यते तदा दृगुच्छ्रायकोट्या क इति ॥ फलमात्मवंशान्तरभूमिः । एवमग्रवेधेऽपि । एवं वंशमूलादुपरि दृष्ट्युच्छ्रायमितेऽन्तरे चिह्न कल्प्यम् । तद्दृष्ट्योरन्तरे रेखा भूमानमिता स भुजः ॥ चिह्नोपरिस्थं वंशखण्डं कोटिः । दृष्टिवंशाग्रयोर्बद्धं सूत्रं कर्णः ॥ एतत्र्यस्रानुसारमेव वेधत्यस्रं भवत्यतोऽनुपातः । यदि वेधभुजेन वेधकोटिर्लभ्यते तदा भूमितेन भुजेन केति । फलं चिह्नोपरितवंशखण्डम् ॥ तद्दृष्ट्युच्छायेण युतं सकलवेणुप्रमाणम् ॥ ४२३-४४३ ॥

 वा० वा०-अथ वंशमूलवेवेन। स्ववंशमध्यभूज्ञानार्थमाह विद्ध्वैवमिति । । अत्रात्मवंशान्तरं भुजः दृगुच्छ्रायं कोटिः । वंशमूलगामिदृक्सूत्रं कर्णः । तेनोक्तं दृष्टद्युच्छायाहताद्बाहोरिति ।

 अथ वंशाग्रवेधेन वंशौच्च्यज्ञानमाह--विद्ध्वाथो वंशाग्रमिति । अत्र वंशाग्रां कर्णः । वंशदृष्टयोरन्तरं भुजः । दृगुच्छ्रायादुपरिवंशखण्डं कोटिः । अत उत्तं भूमानं कोटिसंगुणमित्यादि । सम्पूर्णी वंशोच्छायो ज्ञातव्य इति दृष्ट्युच्छायेण संयुत इत्युक्तम् ।

 अमुमर्थं शिष्येभ्यः स्पष्टयितुमुदाहरणं दर्शयति-पञ्चशक्राङ्गुला यष्टिरिति ॥ ४२-४४ ॥

अथ केवलाग्रवेघेनाह~

अग्रं विध्वोध्र्वस्थः पुनरुपविष्टश्च तद्विद्ध्येत् ॥ ४५ ।।
निजभुजभत्ते कोटी तदन्तरहुती दृगौच्यविश्लेषः।
भूमिर्वशौच्च्यमतः पृथक् पृथक् पूर्ववज्ज्ञेयम् ।। ४६ ।।

अत्र प्रषन-

ऊर्ध्वस्थस्य गृहादिभिव्यवहितस्याप्यग्रमात्र' सखे
सि वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते ।।

o-ro