पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/514

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७२
सिद्धान्तशिरोमणौ गोलाध्यायेव



 वा० वा०-अथ' धीयन्त्रप्रशंसार्थमाह-अथेति । सर्वत्र यन्त्रनिर्माण यन्त्र वेधप्रकारश्चोच्यते । अत्र करकलितयष्टिरेव यन्त्रनिर्माणम् । दत्तमूलाग्रदृष्टिरेव वेधप्रकार: । धीमत एव करकलितयष्टया वंशौच्यादिज्ञानं संभवति नान्यस्येति धीयन्त्रमिदमिति स्पष्टम् । अत्र सूत्रोदाहरणाद्यं भाष्ये स्पष्टम् ।। ४०-४१ ॥

अथ यष्टिया ध्रुववेघेन पलभामाह-

यष्टयग्रमूलसंस्थ विद्ध्वा ध्रुवमग्रमूलयोलम्बी।
बाहुर्लम्बान्तरभूर्लम्बोच्छ्रायान्तरं कोटिः ॥ ४२ ।।
कोटिद्वदिशगुणिता बांहुविभक्ता पलप्रभा ज्ञेया ।

 वा० भा० - अत्र समायां भूमी स्थित्वा गणकेन वेधः कर्तव्यः। यटघग्रमूलसंस्थमिति । यप्टेरग्रे मूले चैकहेलया यथा ध्रुवः संलग्नो दृश्यते तथा यष्टिर्धार्या । ततस्तदग्रान्मूलाच्च लम्बनिपातौ कार्यौ । भुवि लम्बनिपातयोरन्तरे यावन्त्यङ्गुलागि तावान् भुजः । एवं लम्बौच्च्ययोरन्तरे यावन्ति तावती कोटिः । यष्टिप्रमाणं कर्णः ॥ सर्ववेधेय्वप्ययमेव विधिज्ञेयः । ततोऽनुपातः । यद्यनेन बाहुनैतावती कोटिस्तदा द्वादशाङ्गुलेन किमिति फलं पलभा स्यात् ॥ ४२-४२ ।।

 वा० वा०-पलभाज्ञानमाह-

 यद्वयग्रमूलसंस्थमिति ।

 अत्र लम्बोच्छ्रायान्तरं कोटिः । लम्बान्तरभूर्भुजः यष्टिरेव कर्णः । एतद्वेधक्षेत्रानुसारेण लम्बज्या भुजोऽक्षज्या कोटिस्त्रिज्या कर्णं इति क्षेत्रमनुभूयते । तदुक्तम्कोटिद्वादशगुणितेति ॥ ४२-४२३।

इदानी वंशादिवेधमाह-

विद्घवैवं वंशतल दृष्युच्छायाहताद्बाहोः ॥ ४३ ॥
कोठया लब्ध ज्ञेयं स्ववंशमध्ये महीमानम् ।
विद्ध्वाथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् ॥ ४४ ।।
दोष्णा वंशोच्छायो दृष्युच्छायेण संयुतो ज्ञेयः।


१. अत्र सिद्धान्तसार्वभौमे मुनीश्वरः--- ܀. ”

अथेष्टयष्टया भुवि नीर मध्ये व्योम्निस्थितं वस्तु यदेव दृश्यम् ।
तन्मानबोधाद्युपयुक्त बुद्धियन्त्र प्रवक्ष्ये निखिलैकसारम्। ८५ ।
यष्टयाग्रमूलस्थितदक्षिणक दृष्टयाभखेटादि विलोक्य पात्यौ ।
तद्यष्टिमूलाग्रत एव लम्बौ तदन्तरे भूप्रमितिर्भुजः स्यात् ।। ८६ ।।
लम्बप्रमाणान्तरमत्र कोटिर्यष्टिः श्रुतिर्वेघभवं हि जात्यम् ।
प्रत्यक्षमस्मात्सकलस्य वेद्या युक्तानुपातास्रमितिः सुधीभिः ।। ८ १ ।।