पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/513

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७१
यन्त्राघ्याय:

अथ यन्त्रधारणवेधयोः प्रकार:- -

हस्ताभ्यां तद्यन्त्रतुल्येऽन्तरेऽक्ष्णोधृत्वा यन्त्रं नेत्रमेकं निमील्य ।
 पश्येदथाँ द्वौ यथाङ्गुष्ठयुग्मच्छन्नौ स्तस्तन्मध्यगा वेधजांशाः ।।२।।

अथ तावद्वस्तुद्वयान्तरे ज्ञाते तन्मध्यस्थितभूमिज्ञानार्थम्--

वेणोरग्र स्वजानुस्थदृष्टथा यावद्विलोक्यते ।
 स्वस्थानाद्वंशमूलान्तः करा वेणुमितिर्भवेत् ।।३।।
 वस्तुनोरन्तरं षष्टया निघ्नं वेधांशभाजितम् ।
 वस्तुमध्यावधि स्वश्माद्भूमिमान प्रजायते ।।४।।

अथ वस्तुद्वयान्तरज्ञानाभावेऽपि तज्ज्ञानार्थं तदात्मान्तरभूमिज्ञानार्थं चाह- -

एकस्थानाद्वस्तुयुग्मं च विद्ध्वा ज्ञेया भागास्तत्पुरः पृष्ठतो वा ।
 किचिद्गत्वा ये पुनर्वेधभागा ज्ञेया गण्या चापसारस्वभूमिः ।।५।।
 सा भूमिरंशद्वयघातनिघ्नी भागान्तरासाऽथ पृथक खषड्हृत् ।
 वस्त्वन्तरं स्यादितरा स्वभागहृत् स्यात् स्ववस्त्वन्तरभूमिमानम् ॥६॥

अथ वेणुमूलाग्रे दृष्ट्रा तदात्ममध्यभूज्ञानार्थ वंशौच्यज्ञानार्थ चाह

यन्त्रं धृत्वा लम्बवत् प्राग्वदेव वेणोर्मूलाग्रे सहैव प्रवेध्ये ।
 ज्ञेया वेधांशा द्विधाऽथो ततः स्यात् तद्वंशौच्च्यं स्वस्ववंशान्तरं च ।।७।।

अथात्मवंशान्तरे ज्ञाते वेण्वग्रदर्शनार्द्धशौच्यज्ञानार्थमाह--

धृत्वा पट्ट्याधारभूध्वंस्थयन्त्र' गत्वा पृष्ठे वेधयेत् कीचकाग्रम् ।
 कोटिहटचौच्योध्र्वगा वेधजांशा दो.स्याद्धस्ता येऽपसारस्य भूमेः ।।८।।
 स्ववंशान्तरगा हस्ता कोटिघ्ना बाहुभाजिताः ।
 षष्टश्यासा वंशहस्ताः स्युर्दृगौच्च्यकरसंयुताः ॥९॥

अथ भूमिज्ञानाभावे केवलादग्रदर्शनादेव वंशौच्यमात्मवंशान्तरमाह--

पृछे गत्वा द्विभुजौ ये च कोटी ते स्वे कोटि दोहते तद्वियुत्या।
 दोविश्लेवाल्लब्धमाद्यस्थितेः स्याद्भूमानं प्राग्वत्ततः कौचकौच्च्यम् ।।१०।।
 इदं वासनासिद्धमपि दुःसाध्यम् ।
 अथान्तरिक्षे वस्तुद्वयं दृष्ट्रा तदन्तरज्ञानार्थ भूमेस्तदौच्यज्ञानार्थ चाह--
{{block center|<poem>स्थित्वा विद्धाऽर्थद्वयं तत्तलस्थस्तुल्योच्यं तच्चोपविश्यापसारः ।
 दृग्वेधांशात् स्यात्ततो वस्तुमध्यं स्यादौच्च्यं त्वासीनदृष्टश्यौच्च्ययुक्तम् ।।११॥

 अथैकमेव वस्तु दृष्टं चेत् तदा तत्सन्निहितं मध्येऽन्यद्वस्तु प्रकल्त्य मध्यभूमिज्ञानं स्यादि त्यनुतमपि ज्ञायते ।

अथ जलपर्यन्त कूपमध्ये वेधज्ञानमाह--

एवं स्थित्बा कूपतीरे जलस्थं स्थानद्वन्द्व वीक्ष्य मध्यं तयोः स्यात् ।
 अत्रौच्च्यं यच्चोध्र्वदृष्टया विहीनं कूपे वेधः स्यादतोऽन्यत्र चोह्यः ॥१२॥

अथवा सूत्रम्—-

कण्ठे स्थितः कूपजलान्यकण्ठी विद्ध्वा सहैवैत्य पुनश्व पृछे।
 वंशौच्च्यवत् · स्याज्जलकण्ठमध्यं कूपस्य तत् किन्तु दृगौच्च्यहीनम् ॥१२॥
 इति श्रीकेशवसांवत्सरात्मजगणेशदैवज्ञविरचितं सुधीरञ्जनयन्त्रम् ॥