पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



सिद्धान्तशिरोमणौ ग्रहगणिते


इति 'अग्निहोत्रहोमस्यैव सूर्योदये प्रवृत्तिर्दृश्यते२ । अग्निहोत्रं कुर्वाणा बहवो दृश्यन्ते इति कत्तृबाहुल्याभिप्रायं क्रतव इति बहुवचनम् । कर्मभेदकप्रमाणानां शब्दान्तराभ्यासाॐ सन्निधि गुणसंख्यानाम्नामभावात् प्रत्यभिज्ञातस्य* कर्मण एकत्वात्। यद्वा क्रतुशब्देन पञ्चमहायज्ञा गृह्यन्ते शतक्रतुमुखा देवा दिवि स्वर्गे दीव्यन्ति तदंशभागित्वात्। अंशिनः समुदये 'ज़्शानां क्रीडा समुचितैव । अथवा क्रत्वंशभागित्वात् क्रीडन्ति । यद्यपि श्रूयमाणा देवता कर्मस्वरूपनिष्पादयित्री कर्मणोऽङ्गभूता न प्रधानत्वं प्रतिपद्यते, तथापि कर्मणो जडत्वेन फलदातृत्वासंभवाच्चेतनाधिष्ठितस्य कर्मण: फलदातृत्वसंभवाच्चास्ति कर्माधिष्ठाता देवः प्रधानम्६ । तस्य प्रीतिसम्पादक कर्मेति क्रीडा युक्तैव । इन्द्रादयोऽपि तदंशाः । अतो न किञ्चिद्विरुद्धम् ॥ १ ॥

इदानीं पूर्वाचार्याणां प्रशंसन सविनयमाह।

कृती जयति जिष्णुजी गणकचक्रचूडामणि-
र्जयन्ति ललितोक्तयः प्रथिततन्त्रसद्युक्तयः ।
वराहमिहिरादयः समवलोक्य येषां कृतीः
कृती भवति मादृशोऽप्यतनुतन्त्रबन्धेऽल्पधीः ।। २ ।।



वा० भा०-स्पष्टार्थमिदम्। २ ।।

वा० वा०-गणिताचार्यप्रशंसापूर्वक 'साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य मङ्गलान्तरमाचरति कृती, इति ॥ २ ॥

इदानीमात्मनः कर्तुत्वारम्भणीयस्य च सम्बन्धार्थमाह ।

कृत्वा चेतसि भक्तितो निजगुरोः पादारविन्दं ततो
लब्ध्वा बोधलवं करोत सुमतिप्रज्ञासमुल्लासकम्।
सद्वृत्तं ललितोक्तियुक्तममलं लीलावबोधं स्फुटं
सत्सिद्धान्तशिरोमणिं सुगणकप्रीत्यै कृती भास्करः ।। ३ ।।



वा० भा० इदमपि सुगमम्। ३ ।।

वा० वा०-निजगुरुचरणारविन्दध्यानपूर्वकं तल्लब्धप्रसादश्चिकीर्षितं प्रतिजानोते कृत्वेति ।

१. अग्निहोम ख पु० । २. दृश्यति ख पु० । ३. म्यासां ख पु० । ४. ज्ञातश्च क ख ग पु० । ५. समुद अशा’ ख पु० । ६. अभेदस्थले ‘वेदाः प्रमाणम् इति वत् समानलिङ्गकत्वमतन्त्रम् । ७. प्रचुरमङ्गलस्यैव प्रचुरसमासि प्रति प्रचुरविघ्नध्वंसं प्रति वा। कारणत्वमितिसिद्धान्त माश्रित्य वक्ति ‘साधन भूयस्त्व' इति ।