पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



मध्यमाधिकारे कालमानाध्यायः

“विमतिप्रज्ञा इत्यपि पाठः साधीयान् महोत्कर्षाधायकत्वात्' । अनेन विशेषणेन मुनि कृतशास्त्राद्विशेषः सूचितः ।। *सद्युत्तिमित्यनेनार्यभटशास्त्राल्ललितोक्तियुक्तमिति, वराहादिशास्त्रादमलमिति, लल्ल-श्रीपति-प्रणीतशास्त्राद् बालावबोधमिति, ब्रह्मगुप्तशास्त्रात् स्फुटमिति, पितामहादिसिद्धान्ताद्विशेषः सूचितः । एतावता *विशेषणव्यूहेनैतावद्विशेषजिज्ञासुरधिकारीति सूचितम् । एतद्ग्रन्थकरणफलं सुगणकप्रीतिरित्युक्तम् ॥ ३ ॥

इदानीं ग्रन्थस्यानारम्भकारण विशिष्टमारम्भे कारणान्तर पूर्वार्धनाभिधायोत्तरार्धन सुजनगणकान् प्रार्थयन्नाह ।

कृता यद्यप्याद्य श्रतुरवचना ग्रन्थरचना
तथाऽप्यारब्धेयं तदुदितविशेषान् निगदितुम् ।
मया मध्ये मध्ये त इह हि यथास्थाननिहिता
विलोक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि ॥ ४ ॥

वा० भा० आद्येराचार्येर्यद्यपि चतुरवचना श्लक्ष्णा ग्रन्यरचना कृता तथाऽपि मयाऽऽरब्धा । इदमः प्रस्तुतनिर्देशादियमीदृशी चतुरवचना अचतुरवचना वा । यद्यचतुरवचना तर्हि किमारम्भणीया तदर्थमाह । तदुदितविशेषान् निगदितुमिति । यत् तैरुदितं तत् तदुदितं तस्माद्ये विशेषास्ते तदुदितविशेषाः । ये तैर्नोक्ता इत्यर्थः । अथ सुजनान् प्रत्याह । सुजनाश्च ते गणकाश्च सुजनगणकास्तैरियं मरकृतिरपि विलोक्या। अपि शब्दः समुच्चयार्थ । तेन हे सुजनगणका भवद्धिब्रह्मादीनां कृतयः किल विलोकिताः । इदानीं मत्कृतिरपि मदुपरोघेन विलोक्या । यदि विलोक्या तहिं कृत्स्ना समग्रा । किमिति । हि यस्मात् कारणात् ते विशेषा इहास्मिन् ग्रन्थे मया मध्ये मध्ये यथास्थानं यथाऽवसरं निहता निक्षिसाः । कृत्स्नग्रन्थविलोकनेन विना सर्वे न ज्ञायन्त इत्यर्थः । ४ ।।

। वा० वा०-नन्वेते विशेषा: सिद्धान्तचूडामणिप्रभूतिष्वपि वर्तन्ते' कृतमनेन' ग्रन्थप्रणयनेनेत्यत आह [ कृता इति ]

असङ्गतिप्रलापस्तु प्रेक्षावतामनवधेयो भवतीति यथास्थान एव विशेषा अभिहिता इत्याह

'मया मध्ये मध्ये त इह हि यथास्थाननिहिता' इति

विशेषवगत मत्कातिविलोक्यापि मदुरोधेन इत्नापि द्रष्येत मुजनातू प्राथयत ।


१. महोव्रत्कषा ख पु० । २. द्युक्तित्येन’· ख पु० । R. व्यूहनता’ ख go Y6. वतते ख go ५. अलमित्यर्थः । ६• अनाहत इत्यर्थ: ।