पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/503

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६१
यन्त्राध्याय:

आधारः श्लथशृङ्खलादिघटितः कार्या च रेखा तत-
स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते । १८ ।
लम्बं नवत्य ९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्यगतः प्रसार्य ।
स्रुत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया विधेयाः ॥१९॥
आधारतोऽधः खगुणा ३० ङ्गुलेषु ज्यालम्धयोगे सुषिरं च सूक्ष्मम्।
इष्टप्रमाणा सुषिरे शलाका क्षेप्याक्षसंज्ञा खलु सा प्रकल्प्या ॥२०॥
षष्टयङ्गुलव्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ । तदङ्कयम् ।
षष्टया घटीनां भगणांश ३६० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः२१॥
अग्रे सरन्ध्रा तनुपट्टिकेका षटयजुला दीर्घतया तथाङ्कया

 वा० भा -- अत्रादौ धातुमयं श्रीपण्र्यादिदारुमयं वा फलक चतुरस्र श्लक्ष्ण सम कर्तव्यम् । तच्च नवत्यङ्गलविस्तारं द्विगुणविस्तारदैर्घ्यम् । तत्समीपे दैघ्र्यमध्ये तस्याधारः शिथिलः शृङ्खलादिः कार्यः । आधारे घृतं यन्त्रं यथा लम्बमानं स्यात् तथा धृते फलक आाधारादध:सूत्रमवलम्बरेखा कार्या । सा च लम्बसंज्ञा । तं लम्बं नवतिभाग कृत्वा भागे भागे तिर्यग्रेखा दीर्घा कार्या । तिर्यक्त्वं तु लम्बभवान्मत्स्यात् । सा रेखा ज्यासंज्ञा क्षेया । आधारादर्धास्त्रशदङ्गलान्तरे या ज्या तस्या लम्बस्य च संपाते सुषिरम् । तत्रेष्टप्रमाणा शलाका क्षेप्या । साक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिशदङ्गलेन कर्कटकेन वृत्तरेखा कार्या । सा षष्टि६० घटिकाभिर्भगणांशकैः खषडग्निसख्यैः ३६० प्रत्यंशं दशभिः पानीयपलेश्चाडूया । अथ ताम्रादिमयी वंशशलाकामयी वा पट्टिका षष्टव्यङ्गला ६० दीर्घतया तैरेव फलकाङ्गलैस्तथैवाङ्किता कार्या । सा पट्टिकार्धाङ्गलविस्तृता । " एकस्मिन्नग्रेऽङ्गलविस्तृता कुठाराकारा कार्या । तत्र विस्तारमध्ये छिद्र कार्यम् । अक्षप्रोतायाः पट्टिकाया लम्बोपरि धूताया एक पाश्र्व यथा लम्बरेखां न जहाति तथा सरन्ध्रा कायेंत्यर्थ: १८-२१) ।

 इदानी यन्त्रोपकरणमाह-

यत् खण्डकै स्थूलचरं पलायं तद्रोकु १९हृत्। स्याचरशिजिनीह।२२।।

 वा० भा०-यत् खण्डकोत्थं चरार्ध पानीयपलात्मकं तस्यैकोनविंशति १९ भागोऽत्र चरज्या ज्ञेया। तानि चरखण्डानि । दिङ्नागसत्र्यंशगुणे १० ॥ ८ ॥ ३० । विनिध्नी पलप्रभा श्युश्चरखण्डका-ीति । तानि यथा सार्धचतुरङ्गले ४ ॥ ३० पलप्रभादेशे ४५ ॥ ३६ ॥ १५ ।

 अत्रोपपत्तिः- खण्डकैश्चरसाधने कथितैव । तच्चरं रूपतश्चरज्यारूपमेवागच्छति । तच्च पानीयपलात्मकम् । अतस्तत् षड्गुणितमस्वात्मक स्यात् ।।'(स्वल्पत्वादस्य ज्या तावत्येव भवति ।) ततोऽनुपातः । यदि त्रिज्याव्यासार्ध एतावती चरज्या तदा त्रिशद्व्यासार्धे कियतीति । अत्र त्रिशच्चरज्याया गुणकस्त्रिज्या हरः ॥ अतः षड्भिस्त्रिशता च त्रिज्यापवर्तने कृते जात एकोन-" विशतिर्हरः १९ ॥ रूपं १ गुणः । फलमत्र यन्त्रे चरज्येत्युपपन्नम् ।।२१३-२२॥


१. अत्र बापूदेवः-स्वल्पत्वादिति प्रभृति भवतीत्यन्तं केनचित् प्रक्षिसमिति प्रतिभाति ।