पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/502

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६०
सिद्धान्तशिरोमणी गोलाध्याये

 वलययन्त्र-चूडायन्त्र-मुद्रिकायन्त्र-त्रिकोणयन्त्र-चन्द्रार्द्धयन्त्र-कर्त्तरीयन्त्र-कषालयन्त्र-चिन्तामणियन्त्र-भूजयन्त्र-कपालयन्त्र-खड्गशरादियन्त्राद्यानि चक्रयन्त्रप्रकृतिकान्येवेत्याचायेग्रंन्थविस्तारभयान्नोत्तानि ॥१४६–१५॥

 अथ फलकयन्त्रार्थमा

 स्फुटकाल उत्तः सुखेन नान्यैर्यातितं मयातः ।
सद्गोलयुतगणितस्य सारं स्पष्ट प्रवक्ष्ये फलकाख्ययन्त्रम् ॥ १६।।

 वा० भा०-स्पष्टार्थम्। १६ । ॥ १६।।

 इदानीमभीष्टदेवतानमस्कारपूर्वकमाह--

नित्यं जाङयतमोहरं सुमनसामुल्लासनं सप्रभं चाक्लेशं समयावबोधनविधौ प्रोद्रोधितज्योतिषम् । सेव्यं मण्डलमध्यगं सुकृतिभिर्यात्र' स्फुटं वच्म्यहं
नत्वैतद्गुणमेव देवममलं श्रीभास्करं भास्करः ॥ १७ ।। -

 वा० भा०-वच्मि कथयामि । किम् । यन्त्रम् । किविशिष्टम् । स्फुटमव्यभिचारि । कः । कर्ताहं भास्करः। कि कृत्वा । नत्वा प्रणिपत्य । कम्। भास्कर सूर्यम्। किंविशिष्टम्। मण्डलमध्यगं सूक्ष्मरूपावस्थानम् ॥ पुनः किंविशिष्टमिति प्रतिविशेषणं सम्बध्यते । नित्यमविनाशिनम् । तथा ज ड्यतमोहर शैत्यतमोहरम् । तथा सुमनसा कमलादीनामुल्लासनम् । तथा । सप्रभ सदीसिकम्। तथा अक्लेशं निरायासम्। क्व। समयावबोधनविधी कालज्ञानविधाने ॥ प्रोद्बोधितज्योतिषमुल्लासितातारकम् । यदेतत् तारकाणां तेजस्तद्रवितेजः संजनितमेवेत्यर्थः । तथा सेव्यमुपास्यम् कैः ॥ सुकृतिभिः पुण्यकृद्भिः ।

 अथैतान्येव विशेषणानि यन्त्रे व्याख्यायन्ते । किविशिष्टं यन्त्रम् । जाडयतमोहरम् । जाडच मौढयं तदेव तमो हरतीति जाडघतमोहरम्। कदा । नित्य प्रत्यहम् । तथा सुमनसां विदुषामुल्लासनम्। तथा सप्रभ छायासहितम्। तथा अक्लेश समयावबोधनविधौ। अत्र सुखेन कालज्ञानं भवतीत्यर्थ:। तथा प्रोद्बोधित ज्योतिषमुज्ज्वलीकृतज्योतिश्शास्त्रम् । तथा सुकृतिभिः सुगणर्कः सेव्यम् ॥ तथा मण्डलमध्यगम् । मण्डलं मध्यगं यस्येति मण्डलमध्यगमन्तलिखितवृत्तमित्यर्थः । तथामलमिति ।। १७ ।। वा० वा०-अथ चक्रयन्त्रप्रकृतिकमपि यन्त्रान्तरेभ्यो विशिष्ट फलकयन्त्रप्रतिपादनं प्रतिजानीते । सगोलयुक्तेरिति । यन्त्रसूर्यपरश्लेषोक्तिविशेषेण मङ्गलाचरणपूर्वको यन्त्रप्रतिपादनं प्रवृत्यर्थ प्रतिजानीते-नित्यमिति । वासनाभाष्ये स्पष्टम् ॥१६-१७॥

 इदानी यन्त्रलक्षणमाह

कर्तव्यं चतुरस्रकं सुफलकं खाङ्का ९० ङ्गुलैर्विस्तृतं विस्ताराद्द्विगुणा १८० यतं सुगणकेनायाममध्ये तथा ।