पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/501

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५९
यन्त्राध्याय:

चापस्तु वृत्तदलमत्र खनागचन्द्राश्चन्द्राद्धवद्विरचयेत् घटिकाश्च देशैः ।
जीवापि मध्यसुषिरप्रविलम्बिलम्बा कोटिद्वये नयनयोर्युगलञ्च कार्यम् ।
गुणावारपारीणरन्ध्रण नेत्रद्वये चाथ वा खेचरो वेधनीय इति ।
तुरीयं यन्त्रमाह-कोदण्डखण्डं खलु तुर्यगोलमिति ।

 'विधुदल नयनद्वयाद्यमेतद्दल सनयनं तु तुरीयगोल इति रामेणोत्तम्। महाराष्ट्राचार्यस्तुरीययन्त्राद्दशाधिकारप्रतिपाद्यवस्तुजातं सुखेन यथा ज्ञायते न तथा यतितम् । तद्विस्तरभयान्नेहोक्तम् ।


तथा च सिद्धान्ततत्त्वविवेके कमलाकर:--

ऊध्र्वाधरा तथा तिर्यग्रेखा चक्रस्य मध्यगा ।
कार्या चक्राङ्घ्रयस्ताभ्यां चत्वारः स्युः समा इह ॥३९१॥
तदेकाङ्घ्रिस्वरूपाच्च यन्त्रादेव यथा भवेत् ।
यन्त्रं त्रिकोणं जात्यं तस्य व्यासार्धसंमितौ ।
भुजौ, तच्चं चक्रनेम्यङि्घ्ररूपो बाहुस्तृतीयकः ॥३९४॥
तस्यैकः समकोणोऽस्ति तदन्यौ विषमौ किल ।

  • समकोणे चक्रकेन्द्र' विषमैको भवेत्कुजम् ।३९५॥

तथाऽन्यः स्यात्खमध्यं तु कुजकेन्द्रान्तरेऽस्तिभूः ।
तथा खमध्यकेन्द्रान्तः खरेखा नेमिग तथा । ३९६।
वृत्तत्रयवशात्कुर्यात्कोष्ठकद्वितयं बुधः ।
कुजात्खाङ्कलवा नेम्यां तथा खात्तिथिनाडिकाः ॥३९७॥
समास्त्रिशदविमागाश्च कार्या भूमेस्ततो ज्यकाः ।
खसंज्ञ रेखिकातुल्यान्तराला नेमिवृत्तगाः ॥३९८॥
त्रिशन्मिताः कुमारभ्य खान्तं यन्त्रे कृता बुधैः ।

 सिद्धान्तसार्वभौमे---चक्रयन्त्रस्य चतुर्थाशस्तुर्ययन्त्रम् सिद्धान्तसुन्दरे--

कार्यं तुर्यं चक्रतुर्याशरूपं धार्यं तस्मिन् कर्णयुग्मं सरन्ध्रम् ।
केन्द्र रन्ध्रे तत्र पट्टी सलम्बा नेम्या रम्याः खाङ्क ९० भागाः नियम्या ॥२॥।
कणधिस्थादालवालम्बमाना त्रिशज्जीवास्तत्र तुल्यान्तराला ।
षड्भर्भागा ६ नाडिकैकाङ्कनीया पट्टी चेयं चान्तरालंगुलाङ्काः ।।३।।
एकद्वित्र्याद्युत्क्रमज्या विहीना त्रिज्याकोटिष्वत्र कर्णस्त्रिभज्या ।
तद्वर्गाभ्यां मूलमिष्टा भुजद्युज्या जीवा एवं तुर्ययन्त्रे विधेया ।।४।।
केन्द्राधस्थादम्बरं कल्पनीयं तस्मात्तिर्यक् व्यासखण्डेन भूजम् ।
पृष्ठं यन्त्रे स्वोदयाद्राशिमागा लिप्सा प्रत्यंशं पलाद्यङ्कनीयम् ।॥५॥
सिद्धां २४ शज्या पट्टिकायां प्रदेया केन्द्रात्पट्टी दोलवाग्रे विधेया ।
अहं २४ ज्जीवा स्याज्ज्यकाग्रे तदीयाः क्रान्त्यंशाः स्युर्दोलंवास्ते तदीया ॥६॥