पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/494

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५२
सिद्धान्तशिरोमणी गोलाध्याये

वश्यकत्वात्केन्द्रव्यासान्तराभावः । तस्मादक्षज्यावशेन क्षितिजकेन्द्रं व्यासान्तरं साध्यम् । यद्यक्षज्यातुल्येन भुजेन लम्बज्यात्रिज्ये कोटिकर्णौ तदा मेषप्रमाणतुल्येन भुजेन किमिति क्षितिजकेन्द्रव्यासौ भवतः । मेषप्रमाणवृत्तपूर्वापरसूत्रसम्पात एव मेषादेरुदयस्थानसद्भावाद्क्षतिजसम्पातोऽप्यत्रावश्यकः ।

 नहि क्षितिजमन्तरेणोदयः संभवति । यन्त्रकेन्द्राद्याम्यसूत्रे क्षितिजकेन्द्रप्रमाणं कृोटिः । मेषूप्रमाणं भुजः । क्षितिजकेन्द्राग्रस्य क्षितिजवृत्तपूर्वापरसूत्रसम्पातस्यान्तरे तिर्यक्कर्ण इति क्षेत्रम् ।

 एवं यदायाति क्षितिजकेन्द्रं तद्याम्यरेखायां देयं तदग्रात् क्षितिजव्यासेन यन्त्रे . यद्वृत्तशकलं तत् क्षितिजं भवति । यन्त्रकेन्द्रात् सौम्यसूत्रक्षितिजसम्पातं यावदक्षांशोत्थद्युज्येव । लम्बज्योनत्रिज्याया अक्षांशोत्क्रमज्यारूपाया मेषप्रमाणगुणनप्राप्तावक्षक्रमज्या भक्तत्वात् । मेषप्रमाणगुणलम्बज्याक्षज्याभक्ता क्षितिजकेन्द्रम् । मेषप्रमाणगुणात् त्रिज्याक्षज्याभक्ता क्षितिजव्यासो भवति । केन्द्रव्यासान्तरं कार्यम् । तत्र लम्बज्यात्रिज्ययोरन्त' मेषप्रमाणगुणमक्षज्याभक्तं जातमक्षद्युज्यातुल्यम् । केन्द्रव्यासयोगस्तु मेषप्रमाणगुणोऽक्षक्रमज्याभक्तो लम्बज्यात्रिज्यायोग एव भवति । अयमेव पलांशोनराशिषट्कद्युज्या तुल्यो भवति । ‘योगोन्तरेणोनयुतोऽद्धित इति महेन्द्रसूरिणा 'पलेविहीना गगनाष्टरूपाः' इत्याद्युतम् ।

 अत्र यद्देशीयमक्षपत्र कर्तुमिष्ट तद्देशीयाक्षांशवशेन मकरादिस्थाकदिनदलमेकाद्युन्नतांशजनितनतघटयात्मककालं च सिद्धान्तोत्तच्या साधयेत् । अक्षपत्रस्थमकरवृत्तयाम्यसूत्रसम्पाते प्रथम मकरास्यं निवेश्य कालवृत्तयाम्यसूत्रसम्पाते चिह्न कार्यम् । ततो दिनाद्धतुल्यनतघटिकासु कालवृत्तयाम्यसूत्रसम्पातातू पूर्वतः पश्चिमतश्चिही कायें ।

 एवमेकाह्युन्नताशजनितनतघटीनां चिह्वानि कालवृत्तस्थमकरवृत्तयाम्यसूत्रसम्पातात्पूर्वतः पश्चिमतश्च कालवृत्ते चिही कायें । कालवृत्तस्थचिह्मोपरि मकरास्ये कृते अक्षपत्रे यानि मकरास्यचिह्वानि तानि तत्र क्षितिजाह्युन्नतवलयचिह्वानि भवन्ति ।

 एवं मेषादिस्थितार्कस्य दिनार्द्धं पञ्चदशघटिकात्मकं तत्सिद्धमेवास्ति । एकाद्युन्नतांशवशेन मेषादिस्थितार्कस्य नतघटिकाः साध्याः । याम्यसूत्रे मेषादौ लार्पिते यत्र मकरास्यं कालवृत्ते लगति तत्स्थानाद्दिनाद्धतुल्यनतघटिकाडू मकरास्ये निवेशिते यत्र क्रान्तिवृत्तमेषादि पूर्वतः पश्चिमतश्च मेषवृत्ते लगति तत्र मेषवृत्ते क्षितिजचिह्मम् । इष्टोन्नतांशजनितनतघटिकाडू मकरास्ये निवेशिते मेषवृत्ते यत्र मेषादिलंगति तत्र तत्रोन्नतवलयचिह्वानि भवन्ति ।

 एवं कर्कादिस्थितार्कस्य दिनदलमेकाद्युन्नतांशवशेन नतघटिकाश्च साध्याः । याम्यसूत्रे कर्कादौ लापिते यत्र मकरास्यं कालवृत्ते लगति तत्स्थानात्पूर्वतः पश्चिमतश्च कर्कादिस्थितार्कस्य दिनदलघटिका एकाद्युनतांशजनितनतघटिकाश्च कालवृत्ते दत्वा मकरास्ये निवेशिते क्रान्ति वृत्तकर्कादि यत्र कर्कवृत्ते लगति तत्र क्षितिजद्युन्नतवलयाचिह्नानि भवन्ति । एवं क्षितिजस्य कर्कवृते चिह्नद्वयं मेषवृत्ते चिह्नद्वयं मकरवृते चिह्नद्वयमिति षट्चह्नानि भवन्ति ।