सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/493

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५१
र्यन्त्रांध्याय:

परापमानां नरमौर्विकाया हता नरस्योत्क्रमजीवया सा ।
ततो विभक्ता परमापमाख्यमौव्र्यान्तिमज्या युतया यदाप्तम् ।
कोटिज्यया मिश्रितमधितं तत् त्रिशद्गुणं कोटिगुणेन भक्तम् ।
लब्धश्च तद्व्यासदलं ततश्च पूर्वे दले कोटिगुणोनिते तु ॥
शेष खरामैर्गुणितं विभक्त कोटिज्यया प्राप्तमतो लवादि।
केन्द्र भचक्रस्य भवत्यवश्यं तदन्ततो व्यासदलभ्रमः स्यात्।
इति गौरवेण प्रकारान्तरमुपकल्पितं महेन्द्रसूरिणा तदयुक्तम् ।

 आद्याद्यत्र विचित्रभङ्गिभिरभिप्रेतप्रसिद्धी क्रिया लघ्वी वाथ समा तदेव सुधिया कार्य प्रकारान्तरम् ।

 इत्याचायॉक्त: । कर्कमेषमकरद्युरात्रवृत्तं साधितमेवं वृषवृत्ताद्य साधनीयं तेषां नातीव प्रयोजनमिति तानि न साध्यन्ते ।

 द्युज्यासाधनोपपत्तिः--त्रिज्यया चेन्मेषप्रमाणाङ्गुलानि लभ्यन्ते तदेष्टक्रमदोज्र्यया किमिति क्रमदोज्य यन्त्रे भवति। त्रिज्यायाः चेन्मेषप्रमाणाङ्गलानि तदेष्टोत्क्रमदोज्र्यया किमिति भुजोत्क्रमज्या यन्त्रे भवति । ध्रुवग्रहान्तरे द्युज्या चापांशका एव गोले भवन्ति । अत्र ग्रह इत्युपलक्षण तारागणस्य । अत्र ध्रुवादतिसन्निहिततया भ्रममाणानि समन्ततो ज्योतिर्मयादि भवन्तीति प्रत्यंशद्युज्याखण्डानि साधितानि ।

 अगस्त्यादीनि याम्यध्रुवसन्निहितत्वेन ध्रुवात्परितो भ्रमन्तीति राशिषट्कद्युज्याः साधिता याम्योत्तरध्रुवयोः षड्राश्यन्तरितत्वात् । यन्त्रकेन्द्रं , ध्रुवस्थानं तस्माद्याम्योत्तररेखायामिष्टद्युज्या देया सा कोटिः । मेषादिवृत्तपूर्वरेखासम्पातान्तरे मेषप्रमाणं भुजः । इष्टद्युज्याग्रमेषादिवृत्तपूर्वरेखासम्पातावधि तिर्यकू कर्णी इति बहूनि क्षेत्राणि द्युज्या बाहुल्यान्मेषप्रमाणतुल्य एवैकस्मिन् भुजे भवन्ति । भुजे द्वादशके यौ यौ कोटिकर्णावनेकधेति न्यायात् मेषप्रमाणतुल्ये भुजे द्युज्यारूपाः कोटयो बह्वच्य एवमनुपातेन सिद्धयन्ति ।

 यदि क्रमदोज्र्ययोत्क्रमज्याकोटिस्तदा मेषप्रमाणभुजे का कोटिरिति द्युज्या भवति। परमत्र क्रमदोज्यत्क्रमज्ये यन्त्रपरिणते ग्राहो । अगस्त्यादीनां सौम्यध्रुवादुपरि नतांशनवतियोगेन समन्तात् स्थितानां द्युज्यानयने खग्रहलवाधिक्ये तु कोटि: क्रमज्या त्रिज्यायुक्तवोत्क्रमञ्ज्या भवति ।

बाणेन्दुनाड्यूननतक्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या ।
इति न्यायेन । मेषप्रमाणगुणनं क्रमदोज्र्याभागहरणं तुल्यमेव ।

 अथ क्षितिजवृत्तस्य केन्द्रव्याससाधनोपपत्तिः - मेरौ तु नाडीमण्डलं क्षितिजं विषुवद्वृत्तं द्युसदामित्युक्तः । मेरुस्त्वत्र मध्यकेन्द्रमेव भवतीति यन्त्रकेन्द्रक्षितिजकेन्द्रयोरन्तराभावः । यन्त्रे मेषप्रमाणवृत्तस्य नाडीमण्डलत्वेन मेरौ क्षितिजव्यासो मेषप्रमाणतुल्यः । तस्मान्मेरौ क्षितिजकेन्द्रव्यासयोरन्तरं परमं मेषप्रमाणतुल्यम् । लङ्कायां निरक्षक्षितिजस्य यन्त्रकेन्द्रोपरिगपूर्वापरसूत्ररूपत्वेन केन्द्रव्यासयोस्तुल्यत्वाङ्गीकारा