पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/495

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५३
यन्त्राध्याय:

 उन्नतवलयानामपि षष्ट्रचिह्मानि भवन्ति । स्वीयस्वोष्यवृत्तचिहुषट्कलग्नानि यानि वृत्तनि तानि क्षितिजाह्युन्नतवलयानि सम्पद्यन्ते । क्रियमाणवृत्ताना यन्त्रकेन्द्रात् केन्द्राणि यावद्भरन्तरैर्भवति तन्मितानि केन्द्राणि तेषां क्षितिजाड्युन्नतवलयानां भवन्ति । तेषां वृत्तानां यानि व्यासाद्धनि ते व्यासा इत्युच्यन्ते । तत्राऽक्षांशेभ्यो न्यूनोन्नतांशानां व्यासेभ्योऽधिकानि केन्द्राणि भवन्ति। उन्नतवलयानां सान्तर अक्षांशोन्नतांशान्तरद्युज्यातुल्यं प्रत्यक्षं दृश्यते । लम्बांशनतांशयोगाद्युज्यातुल्यः केन्द्रव्यासयोगो भवति । ‘योगोन्तरेणोनयुतोऽद्धित' इति ‘केन्द्रव्याससाधनम् अक्षे च शेषे च षडुन्नतांशानिति' यदुक्तं सत्सर्वं शोभनम् ॥

 यद्वा मकरमेषकर्कवृतानि पूर्ववदविरचय्य दिगङ्कितानि कृत्वा मेषवृत्तं चक्रांशाडूरड्रयेतू । ततो मेषवृत्तं पूर्वसूत्रसम्पातान्मेषवृत्त [ 'परिधावुपरिभागेऽक्षांशतुल्येऽन्तरे चिह्न कार्यम्। यन्त्रे दक्षिणरेखा मकरवृत्तादूध्र्वमपि फलकादौ दीर्धा कार्या। ततो मेषवृत्त ]

 पूर्वसूत्रसम्पातादक्षांशष्कृतचिह्मलग्नसूत्रं दीर्घ याम्यरेखां नयेत् । तद्यत्र याम्यरेखायां लगति तत्र क्षितिजस्य व्यासान्तगचिह्नं ज्ञेयम् । एवं पश्चिमसूत्रमेषवृत्तसम्पातादधः प्रदेशे मेषवृत्ते पलांशतुल्येऽन्तरे चिहूं कार्यम् । मेषवृत्तपूर्वसूत्रसम्पातादेतच्चिह्न' प्रति सूत्रं नयेत्तद्यत्र याम्योत्तरसूत्रे लगति, तत्र क्षितिजस्य द्वितीयं व्यासान्तगचिहूं स्यात् । ततो व्यासान्तगचिह्मद्वयान्तराद्धकेन्द्राद्व्यासान्तगचिह्मद्वयान्तराद्धमितकर्कटेन यद्वृत्तं तत् क्षितिजं भवति । एवं मेषवृत्तपूर्वसम्पातादुपरि पलांशकृतचिह्नतोऽप्युपरि षडंशान्मेषवृत्तेऽङ्कयेत् ।

 ततो मेषवृतपूर्वसूत्रसम्पातात् षडशचिह्नलग्न सूत्र याम्यरेखायां लग्नं दूर नयेत् । तद्याम्यसूत्रसम्पाते षडुनतांशवलयव्यासान्तगचिह्न भवति ।

 एवं मेषवृत्तपश्चिमसूत्रसम्पातादधःकृताक्षांशचिह्मादुपरि प्रदेशे षडंशेषु चिहूं कार्यम् । मेषपूर्वसूत्रसम्पातादेतत् कृतचिह्रोपरि सूत्ररूपा रेखा कार्या । सा यत्र याम्योतररेखायां लगति तत्र द्वितीयं व्यासान्तगचिह्मम् । ततो व्यासान्तगचिहुद्वयान्तराद्धकेन्द्रात् क्षितिजवदुन्नतवलयोत्पादनम् । एवं *सर्वाण्यप्युन्नतवलयानि ।

 मेरुं यन्त्रकेन्द्रं प्रकल्प्य यद्यन्त्रं क्रियते तत्सौम्ययन्त्रमित्युच्यते । अत्र यत् क्षितिजं तन्मकरद्युरात्रवृत्तक्षितिजसम्पातद्वयाधः क्षितिजवृत्तशकलमेव भवति । वडवं ? यन्त्रकेन्द्रं प्रकल्प्य यन्त्रं क्रियते तद्याम्ययन्त्रमित्युच्यते ।। ॐअत्र यत् क्षितिजं तत् कर्कादिद्युरात्रवृत्तक्षितिजसंपातद्वयाधः क्षितिजवृत्तखण्डं भवति । याम्ययन्त्र क्रान्तिवृत्तस्य केन्द्र याम्यकदम्ब एव स्वीक्रियते। मिश्रत्वान्मिश्रयन्त्रमित्युच्यते। यन्त्रत्रयेणापि कालादिसाधने फल तुल्यं यथा समायाति तथा यन्त्राणि सौम्ययाम्यमिश्रभेदेन बुधैविरचितानि ।


१. अयमंश: खपुस्तके नास्ति। २. सर्वान्यशुत्रत’ इति ख पु० ॥ ३. यत्रेर्ति ख पु० ।