पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/488

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४६
सिद्धान्तशिरोमणौ गोलाध्याये

सुषिरस्थस्थिरकीले भाराढयं कृशसूत्रं निक्षिप्य तत्सूत्रं यदि दक्षिणोदग्गतरेखां सर्वा स्पृशति तदा यन्त्रं शुद्धं ज्ञेयम् ।

 नो चेद्यस्मिन् भागे सूत्रं याति तदन्यं धृष्ट्वा सूत्रे रेखासंपातः कार्यः । कोष्टकागारकेन्द्रे मेरुकीलनिवेशनाय छिद्र कार्यम् ।

कोष्टकागारपाल्यन्तर्वतिखातव्यासतुल्यखातव्यासानामक्षपत्राणां तद्व्यासतुल्यव्यासभपत्रस्य च केन्द्रे मेरुकीलनिवेशनाय च छिद्राणि कार्याणि ।

 तथाह-

मृदा धातुना दारुणा वा भ्रमोत्थातिवृत्ताभमुद्यत् किरीटं च किञ्चित् ।
विहाय स्थलं पालये वृत्तपूर्वं सुखान्तं समं श्लक्ष्णमिष्टप्रमाणम् ॥१॥
सरन्ध्रञ्च मध्ये किरीटेऽपि रन्ध्रद्वयस्पृक्किरीटाग्रतोऽन्तस्पृगेका ।
भवेद्दक्षिणोदग्गता यत्र रेखा 'परप्राच्यमाहृ कपाले यदुत्थे ॥२॥
सुजेत् कोष्टकागारमित्यस्य तिर्यग्रविधेयान्तरेखान्तगा प्राक् प्रतीच्योः ।
इदं पृष्ठभागेऽपि रेखाद्वयं स्यात्, ततो जातभागेषु साम्यं चतुर्षु ॥३॥
निक्षेप्यैका किरीटस्थितसुषिरगते वृश्चिकाराभकीले,
मुद्रा साधारसूत्रादृढ़मिह सुषिरे न्यस्य कील तदग्रात्। बद्ध्वाधो भारसूत्रं
स्पृशति न यदि तत् सर्वरेखां धृतेऽस्मिन्,
यन्त्रे स्थौल्यं विधृष्याखिलतलसमता सूत्रयोगेन कार्या।४।।
कोष्टकागारपाल्यन्तर्वतिखातव्यासतुल्यखातव्यासानामक्षपत्राणां तद्व्यासतुल्यव्यासभपत्रस्य च केन्द्रे मेरुकीलनिवेशनाय च छिद्राणि कार्याणि ।
तत्खातमानसमसान्तररन्ध्ररेखा युग्माक्षपत्रनिचयोऽन्तरतोऽस्य धार्यः ।
साकं ततो द्विगुणस्थौल्यभपत्रकेण पालि स्पृशेत् समतया निहितं यथादः ॥५॥
यो कोष्टाक्षभपत्रकाण्यपि विशेद् भित्वान्तरा कीलक—
स्तीक्षणाग्रद्वितयांशवृततुलिता  प्रागन्यरेखां  सममृ ।
मध्येन स्पृशती भुजा च नयने सम्मुख्यतुल्यान्तर-
च्छिद्रे सा दधती स्वमध्यसुषिरात्पाश्र्वद्वयेऽपि स्थिते ॥६॥
समस्तं विभिद्य स्थिते मेरुकीलेऽग्रतः सन्निवेश्य कृते सूक्ष्मरन्ध्रे ।
दृढ़त्वाद्यथोद्याख्यकीलोऽत्र यन्त्रे यथा विस्तृतिस्पष्टभावाधिकत्वम् ॥७॥
षष्ठ्यंशर्कव्यसमिति कलाद्यौविभज्य पाल्यन्तररेखिकायाम् ।
व्यासान्तगं खत्रिलवैविदध्यान्मध्यात्सुशोभं मकराख्यवृत्तम् ॥८॥
नागाग्निलिप्ताढद्यनवेन्दु १९॥३८ भागैस्तुलाजवृत्तं वलयं च कार्यम् ।
अकाँशकैभूशरलिप्तिकायै: केन्द्राद्भ्रमत्कर्कटकेन कुर्यात् ॥९॥
पाली कोष्ठगृहे त्रिवृतजनिते वीथी द्वयेऽभीप्सिता-
  नंशाङ्कान्प्रथमं खषट्शखिलवानन्तश्च केन्द्रोन्मुखान् ।
रखाभिर्विलिखेतथैव सकल पृष्ठेऽपि लेख्यं क्वचित्,
केचित्प्रोचुरपक्रमांशगुणशङ्क्वाभास्थिति , तत्र    च ॥१०॥


१. पर प्रोत क पु० य र प्राक्य इति ख पु० ।