पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/484

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४२
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० भा०-अत्र दशभिः शुल्बस्य पलैरित्यादि यद्घटीलक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदुपेक्षितम् । दृष्टप्रमाणाकारसुषिरं पात्रं घटीसंज्ञमङ्गीकृतम् । द्युनिश्शनिमज्जनसंख्यया यदि षट्त्रशच्छतानि पानीयपलानि लभ्यन्ते तदेकेन निमज्जनेन किमिति त्रैराशिकम् ।। इति घटीयन्त्रम् ।।८।

 वा० वा०-'घटीयन्त्रमाह-घटदलरूपा घटितेति । एतदेव कपालयन्त्रमिति ॥ ८ ।


सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गला स्यात्।
विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाम्बुना तत् ।

१. अत्र लल्ल:-

दशभि. शुल्वस्य पलैः पात्रं कलसार्द्धसन्निभं घटितम् ।
हस्तार्द्धमुखव्यासं समघटवृत्त दलोच्छूीयम् ।। ३४।।
सत्र्यंशमाषकत्रयकृतनलया समसवृत्तया हेम्नः ।
चतुरङ्गुलया विद्ध मज्जति विमले जले नाडया ॥ ३५ ॥
अथवा स्वेच्छाघटितं घटीप्रमाभिः प्रसाधितं भूयः ।
त्रराशिकसिद्धं वाङ्गुलवद्गुरुविपुलरन्घ्रं यत् ।। ३६ ॥
 इष्टदिनार्द्धघटीभिः सममथवापं निमज्जति घटी सा ।
षष्ठैः शतैस्त्रिभिर्वा विशतिलघ्वक्षरासूनाम् ॥ ३७ ।।

            शि० वू० गो० ७ अ० ३४-३८ श्लो० ।

अन्यच्च ब्राह्मस्फुटसिद्धान्ते-

घटिका कलशार्धाकृतिताम्रं पात्रं तलेऽपृथुच्छिद्रम् ॥
मध्ये तज्जलमज्जनषटया द्युनिशं यथा भवति ॥

               २२ अ० ३७ श्लो०।

अपि च सिद्धान्तशेखरे०-

शुल्वस्य दिग्भविहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् ।
तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रमितं घटी स्यात् ।। १९ ।।
सत्र्यंशमाषत्रयनिर्मिता या हेम्ना शलाका चतुरङ्गुला ।
विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकायाऽम्बुना तत् ।। २० ।।

               १९ अ० १९-२० ।

एवंश्च सिद्धान्तसुन्दरे-

घटदलघटिता घटीनिरुता तलसुषिरा पलषष्टितश्चपूर्णा ।
मुरजसममथाइका च यन्त्र दलसुषिरं शरवच्च शर्कराख्यम। २३ । ।

              १९ अ० २ श्लो० ॥