पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/483

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४१
यन्त्राध्यायः

केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते।
अथवा कीलच्छायातलमध्ये स्युनता नाडय१: ।। ७ ।।

 वा० भा०--अत्र चारुदारुमयमिष्टप्रमाण चक्राकारं सर्भ नेम्यां षटिघटिकाङ्क यन्त्र खगोलमध्यस्थायां ध्रुवयछौ पृथ्वीमध्यस्थाने प्रोतं कार्यम् । तथा स्वोदयप्रमाणेमेंषादिराशिभिरसर्मरुभय१ाश्र्वयोः षड्वर्गेण च बुद्धिमताङ्कनीयम् । तैश्चोदयैविलोमैरङ्कश्यम् । मेषात् पश्चिमतो वृषो वृषात् पश्चिमतो मिथुन इत्यादि । स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे यथा मया पठितः ।

वृतौ चक्रभागैस्तदन्तर्घटीभिः स्वदेशोदयैश्चाङ्कयेदस्य पाश्र्वम् ।
प्रतिस्वोदयं खाग्निभिः क्षेत्रभागैस्त्रिभागाभिधैद्वदिशांशैर्नवांशैः ।
त्रिभागैद्विभागैस्तथा स्वस्वनाथैः प्रयत्नेन षड्वर्गमेव विभज्य ।

 एवं यन्त्रं कृत्वा यस्मिन् दिने तेन कालज्ञानं तस्मिन् दिने यावानौपयिको रविस्तभुतान् राशीन् मेषादेदंत्त्वा भुज्यमानराशेर्भागान् क्षेत्रभागेषु दत्त्वाऽग्रे रविचिह्नं कार्यम् ॥ तस्मिन् दिन उदयकाले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां रविचिह्न यथा भवति तथा यन्त्र स्थिरं कार्यम् । ततोऽनन्तरं रविर्यथा यथोपरि याति तथा तथा छायाधो गच्छति ॥ छायाकचिह्नयोर्मध्ये या घटिकास्ता दिनगता ज्ञेयाः । तथा यष्टिच्छायायां यो राशियें च क्षेत्राँशास्तल्लग्न ज्ञेयम् । स च षड्वर्गः । अथवा किं खगोलान्तःस्थेन यष्टिप्रोतेन । चक्रान्तरिष्टप्रमाणं कीलकं प्रोतं कृत्वा स कीलको ध्रुवाभिमुखो यथा भवति तथा केनचिदाधारेण चक्र स्थिरं कार्यम् । तथा कृत इष्टफाले कोलच्छाया यत्र लगति तस्य यन्त्राधश्चिह्मस्य च मध्ये नतनाडिका ज्ञेयाः । इतिनाडीवलयम्। ५-७ ।

 वा० वा०-अथ नाडीवलयमाह-अथो 2खगोलनलिकान्त इति। व्यस्तैरिति केनचिदाधारेणेति। सर्वतो भद्राख्यं यन्त्रान्तरं मया कृतमस्तीति ज्ञापनार्थ स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मयोक्त इत्युक्तम्॥५-७।

 अथ घटिकामाह-

घटदलरूपा घटिता घटिका ताम्री तले पृथुच्छिद्रा ।
द्युनिश्शनिमञ्जनमित्या भक्ततं द्युनिशं घटीमानम् ॥ ८ ।


२. भगोल इति क ख पु० ।

३. अत्र श्रीपति:-

 शुल्बस्य दिग्मिविहितं पलैर्यत् षडङ्गुलोच्चं ।

 तदम्भसा षष्टिपलैः प्रपूर्य पात्रं घटार्धप्रतिमं घटी स्यात् ॥

      सि० शे० १९ अ० श्लो० १९ ।