केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते। |
वा० भा०--अत्र चारुदारुमयमिष्टप्रमाण चक्राकारं सर्भ नेम्यां षटिघटिकाङ्क यन्त्र खगोलमध्यस्थायां ध्रुवयछौ पृथ्वीमध्यस्थाने प्रोतं कार्यम् । तथा स्वोदयप्रमाणेमेंषादिराशिभिरसर्मरुभय१ाश्र्वयोः षड्वर्गेण च बुद्धिमताङ्कनीयम् । तैश्चोदयैविलोमैरङ्कश्यम् । मेषात् पश्चिमतो वृषो वृषात् पश्चिमतो मिथुन इत्यादि । स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे यथा मया पठितः ।
वृतौ चक्रभागैस्तदन्तर्घटीभिः स्वदेशोदयैश्चाङ्कयेदस्य पाश्र्वम् । |
एवं यन्त्रं कृत्वा यस्मिन् दिने तेन कालज्ञानं तस्मिन् दिने यावानौपयिको रविस्तभुतान् राशीन् मेषादेदंत्त्वा भुज्यमानराशेर्भागान् क्षेत्रभागेषु दत्त्वाऽग्रे रविचिह्नं कार्यम् ॥ तस्मिन् दिन उदयकाले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां रविचिह्न यथा भवति तथा यन्त्र स्थिरं कार्यम् । ततोऽनन्तरं रविर्यथा यथोपरि याति तथा तथा छायाधो गच्छति ॥ छायाकचिह्नयोर्मध्ये या घटिकास्ता दिनगता ज्ञेयाः । तथा यष्टिच्छायायां यो राशियें च क्षेत्राँशास्तल्लग्न ज्ञेयम् । स च षड्वर्गः । अथवा किं खगोलान्तःस्थेन यष्टिप्रोतेन । चक्रान्तरिष्टप्रमाणं कीलकं प्रोतं कृत्वा स कीलको ध्रुवाभिमुखो यथा भवति तथा केनचिदाधारेण चक्र स्थिरं कार्यम् । तथा कृत इष्टफाले कोलच्छाया यत्र लगति तस्य यन्त्राधश्चिह्मस्य च मध्ये नतनाडिका ज्ञेयाः । इतिनाडीवलयम्। ५-७ ।
वा० वा०-अथ नाडीवलयमाह-अथो 2खगोलनलिकान्त इति। व्यस्तैरिति केनचिदाधारेणेति। सर्वतो भद्राख्यं यन्त्रान्तरं मया कृतमस्तीति ज्ञापनार्थ स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मयोक्त इत्युक्तम्॥५-७।
अथ घटिकामाह-
घटदलरूपा घटिता घटिका ताम्री तले पृथुच्छिद्रा । |
२. भगोल इति क ख पु० ।
३. अत्र श्रीपति:-
शुल्बस्य दिग्मिविहितं पलैर्यत् षडङ्गुलोच्चं ।
तदम्भसा षष्टिपलैः प्रपूर्य पात्रं घटार्धप्रतिमं घटी स्यात् ॥
सि० शे० १९ अ० श्लो० १९ ।