पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/485

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४३
ग्रन्त्राध्याय:

 अथ शङ्कमाह-

समतलमस्तकपरिधिभ्रमसिद्धो दन्तिदन्तजः शङ्कुः ।
तच्छायातः प्रोक्ततं ज्ञानं दिग्देशकालानाम् ।। ९ ।

 वा० भा०-स्पष्टम्। इति शङ्कयन्त्रम् ॥ ९ ।

 वा० वा०-'नरयन्त्राख्यं शङ्कयन्त्रमाह-समतलमस्तकपरिधिरिति ॥ ९।

 अथ चक्रमाह-

चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् ।
धात्री त्रिभ आधारात् कल्प्या भाधेऽत्र भार्धं च ॥ १० ।
तन्मध्ये सूक्ष्माक्ष क्षिप्त्वाकाभिमुखनेमिक धार्यम्।
भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्त ॥११।
तत्खाधान्तश्र नता उन्नतलवसंगुणीकृत द्युदलम्।
द्युदलोन्नतांशभक्ततं नाङयः स्थूलाः परैः प्रोक्ताः२ ।। १२ ।।


१. अत्र लल्लोति: शिष्यधीवृद्धिदे-

भ्रमसिद्धः सममूलाग्रपरिधिरति सुगुरुसारदारुमयः ।
रज्जुव्रणराजिलाञ्छनस्तथा च समतलः शङ्कुः ।। ३१ ॥
वृत्तः षडङ्गुलानि द्वादशदीर्घश्चतुभिरवलम्बैः ।
स्थाप्य: सुसम: प्रथम जलेन च सुसमीकृते फलके ॥ ३२ ॥
छायास्य बहिः परिभ्रेष्रह्मा गोपुच्छसंस्थिते केन्द्रात् ।
छायाग्राच्छङ्क्वग्रप्रापी कणों भवेतिर्यक्। ३३ ॥

      ८ अ० ३१-३३ श्लो० ।

तथा च ब्राह्मस्फुटसिद्धान्ते -

मूले द्वयङ्गुलविपुलः सूच्यग्रो द्वादशाङ्गुलोच्छ्रायः ।
शङ्कुस्तलाग्रविद्धोऽग्रवेधलम्बादृजुर्ज्ञेयः ।

            १९ अ० १८ श्लो० ॥

अन्यच्चु सिद्धान्तशेखरे—

मविरचितवृत्तस्तुल्यमूलाग्रभागो द्विरदरदनजन्मा सारदारूद्भवो वा ।
गुरु ऋजुरवलम्बादव्रणः षट्कवृत्तः समतल इह शस्तः शङ्करकङ्गुलः स्यात् ॥ ८॥

            २२ अ० ३५ श्लो० ।

२. अत्र परवाक्यम्--

इष्टोन्नतांशा द्युदलेन निघ्ना मध्योन्नतांशैविहृताश्च नाड्यः ।
दिनस्य पूर्वापरभागयोश्व याताश्व शेषाः क्रमशो भवन्ति ।