पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/475

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३३
उदयास्तवासना

तद्वयस्तं वलने याम्ये व्यस्तं प्रत्यक्कुजेऽप्यतः ।।
आयनं त्रिज्यया चेत् स्यादस्पष्टेन शरेण किम् ॥ ४ ॥
लम्बज्ययाक्षजं चेत् स्याद्वलनं किं स्फुटेषुणा ।
इति त्र राशिकाल्लब्धे त्रिज्याघ्ने छुज्ययोद्धृते ।।५।।
तच्चापैक्यान्तरप्राणैः कुजात् खेटो नतोन्नतः ।।
तैः प्राणैर्यत् क्रमाल्लग्नं नतात् खेटात् प्रजायते ॥ ६ ॥
उत्क्रमेणोन्नताद्यच्च तङ्ग्रहोदयलग्नकम् ।
उक्तव्यत्ययतः प्रत्यगस्तलग्नं सषड्ग्रहात् ।। ७।
शरे महति भानां तु चराधे मध्यमापमात् ।
शरस्फुटात् तथा कृत्वा तच्चापैक्यान्तरासुभिः ॥ ८॥
विभिन्नैकदिशोर्विद्यादक्षजेन नतोन्नतम् ।
आयनाक्षजयोयोगवियोगाल्लग्नमुक्तवत् ।।९।।

 वा० भा०-अत्र गोले यथोक्तं क्रान्तिमण्डले विमण्डले च ग्रहं दत्त्वा विमण्डलस्थग्रहो- परि घुज्यावृत्ते च बढे यथेयं दृक्कर्मोपपत्तिः सुखेन बालेरपि बुध्यते तथायं सुत्रपाठः कृतोऽतः सुगमा । तथा अच्छायाधिकार इयमुपपत्तिः सम्यक् कथित व ॥ ३-९ ।

 अथ शरस्यं स्पष्टीकरणमाह-

सत्रिराशिग्रहयुज्यानिघ्नखिज्योद्धृतः शरः ।
| स्फुटोऽसौ क्रान्तिसंस्कारे दृकर्मण्यक्षजे तथा ।। १० ।

 वा० भा०—अयं संक्षिप्तो गौणप्रकारः । मुख्यस्तु पूर्व व्याख्यात एव । तथापोह युक्ति- मात्रमुच्यते । विषुववृत्तात् क्रान्तिर्धवाभिमुखी। क्रान्त्यग्राच्छरः कदम्बाभिमुखः । कथं तेन तिर्यस्थेन सा संस्कार्या । अतः क्रान्त्यग्ने यद् ज्यावृत्तं तस्य शराग्रस्य च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति । तच्चान्तरं कोटिरूपम् । शरः कर्णरूपः । तद्वर्गान्तरपदं छ ज्यावृत्ते भुजः । एतत् त्र्यनं दिग्वलनजत्र्यस्रसंभवम् । तत्र सत्रिराशिग्रहक्रान्तिः कदम्बध्रुव- सूत्रयोरन्तरम् । तज्ज्या भुजः । तद्य ज्या कोटिस्त्रिज्या कर्णः । यदि त्रिज्ययेयं कोटिस्तदा शरेण केत्युपपन्नम् । कोटिरूपस्यैव शरस्य ध्रुवोन्मुखस्य ज्ययाक्षजं दृवकर्म कर्तुं युज्यते । शेषोक्तिः स्पष्टार्था ॥ १० ॥


१. अत्र बापूदेवः--

चरांशखाङ्कान्तरशिञ्जिनीघ्नी लम्बाशजीवा त्रिभजीवयाप्ता ।।
तच्चापखाङ्कान्तरमागतुल्यं कुजे भवेत् तद्वलनं पलोत्थम् ।।

२. अत्र परमाल्पद्युजीवघ्नो ग्रहद्युज्योधृतः शर इति पाठः साधुः ।।

 सि०-५५