पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/476

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३४
सिद्धान्तशिरोमणौ ग्रहगणिते

अथ ब्रह्मगुप्सादिभिः कि स्पष्टी नोक्त इत्याशङ्कयाह-

ब्रह्मगुप्तादिभिः स्वल्पान्तरत्वान्न कृतः स्फुटः ।
स्थित्यधपरिलेखादी गणितागत एव हि ॥ ११ ।
नक्षत्राणां स्फुटा एव स्थिरत्वात् पठिताः शराः ।
दृकर्मणाऽयनेनैषां संस्कृताश्च तथा ध्रुवाः ॥ १२ ।।

वा० भा०-स्पष्टार्थम्। ११-१२ ।

अथ सदूषणानुपहसन्नाह-

क्रान्तिसूत्र शरं केचिन्मन्यते ते कुबुद्धयः ।
यद्येवमायनं तैश्च दृकर्मान्यैश्च किं कृतम् ।। १३ ।
किं स्पष्टे वालने सूत्र दत्तो मध्यशरश्व तैः ।
कोटिवद्वालनात् सूत्रात् स्पर्शमुक्तिशरौ च किम् ।। १४ ।।
किंच कृत्वा शरं कोर्टि स्थित्यर्धानयनं कृतम्।
तादृक् चेत् स शरस्तेन नानुपातेन सिध्यति ।। १५ ।।

 वा० भा०-यदि क्रान्तिसूत्रे शरस्तदा ध्रुवाभिमुखः स्यात्। निरक्षदेशे। क्षितिजस्थी ध्रुवः । ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं न त्यजति । नामनोन्नामनाभावात् ॥ किं तत्रायनदृक्कर्मणा । अथावाचार्य: कृत ये न मन्यन्ते तैरपि कृत भ्रान्तत्वात्। तथा परिलेखे बिम्बमध्यात् स्पष्टवलनाग्रोपरिगतं सूत्रं क्रान्तिवृत्तप्राची । तस्याः कोटिवच्छरः किं दत्तः । तत्पक्षे ध्रुवसूत्रे नेयः । शेषं स्पष्टम् ॥ १३-१५ ।।

 अथोत्क्रमज्यानिवृत्तिमाह-

दृष्टिकर्म वलनं च केनचिद्भ्रान्तित: कथितमुत्क्रमज्यया ।
कृतं तदनुगैस्ततोऽपरैरन्धपूरुषपरंपरोपमैः ॥ १६ ।।
ब्रह्मगुसकृतिरत्र सुन्दरी सान्यथा तदनुगैविंचार्यते ।
नोद्धता कृतिरथोद्धतास्तु वा मामिका सुगणका विचार्यताम् । १७ ।

 वा० भा० - अत्र ब्रह्मगुसकृति: सुन्दर्यपि चतुर्वेदाचार्यरन्यथा व्याख्याता । अथात्मन औद्धत्याशडू मत्वोतम् । हे सुगणका इयं मामिका कृतिनाँद्धता । अथवाऽस्तूद्धता । सम्यग्विचार्यताम् । अत्र रथोद्धतेति छन्दोनामापि सूचितम् ॥ १६-१७ ।।

 अथ व्यभिचारमाह-

उत्क्रमज्याविधानेन दृक्कर्म वलन तथा ।
यत् तैरुक्ततं न तत् तथ्यं व्यभिचारोऽत्र कथ्यते ॥ १८ ।