एवं जातकपद्धतावायनबलेऽपि बोध्यमेकत्र निर्णीतः शास्त्रार्थः सर्वत्र युक्त इत्यायनशब्दस्य तत्रापि सत्त्वात् । अत्र मृगकर्कादिष्पदं सायनपरम् । कदम्बभ्रमवृत्तं ध्रुवौ परितो निबध्यम् ।
चतुर्थप्रकारेणाह-नक्रादिरिति । तत इति । कुम्भादाविति । अन्तरमिति । उत्क्रमज्या यत इति ।
उत्क्रमज्यानिराकरणमेवं सिद्धमित्याह- यैरुक्तमिति । एवमाक्षं ज्ञेयमित्याह-- युक्तयानयैवमिति ।
अन्यद्दूषणे दोषाभावमदूषयतस्तु महद्दूषणमित्याह--परोक्तरिति ।
पञ्चमप्रकारेणाह-उत्क्रमज्यानिरासोऽयमिति । क्रान्तियाम्योत्तरमिति । द्वन्द्वा- न्तादिति। आयनमिति । त्रिज्यावृत्त इति । समकीलकयोरिति । समवृत्त इति । द्युज्याग्र इति।
षष्ठप्रकारेणाह-वलनं स्यात्तथेति । तत् त्रिज्यावर्गविश्लेषपदभत्ताक्षशिख्रिनीति । यथा नाडीमण्डलात्क्रान्त्यन्तरेणाहोरात्रवृत्त बध्यते तथा सममण्डलाद् भुजान्तरेणोपवृत्तं बन्धनीयमित्यादिना ग्रहगणितान्तर्गतग्रहणवात्तिकेऽस्योपपत्तिरुक्तैव । द्युज्यावृत्तापवृत्तैक्ये न्यसेद्वा रविमण्डलमित्यायनवलनोपपतिरपि तत्रैव प्रतिपादिता ॥ ३० -७४ ।। -
श्रीमत्कौडूणावासिकेशवसुतप्रासाववोधाद्बुधाद्,
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके,
सत्सिद्धान्नशिरोमणेरयमगात् सर्वोपपत्तिः स्फुटा ॥
अथोदयास्तवासना
तत्रादावुदयेऽस्ते च दृक्कर्मकारणमाह-
क्रान्तिवृत्तग्रहस्थानचिह्नं यदा स्यात् कुजे नो तदा खेचरोऽयं यतः । |
वा० भा०-स्पष्टार्थम् । १-२ ॥
अथ तत्कर्माह-
क्षितिजे वलने ये स्तस्तद्वशादिषुणा ग्रहः । |