पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/473

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३१
ग्रहणवासना

यत्र ग्राह्यकेन्द्रं तस्मात्प्रदेशादस्य व्यासस्य कुत्र स्पर्शादिकमिति विचार्यम् । तत्र ग्राह्यकेन्द्रात् तद्विम्बनेम्यनुगतसममण्डलप्राच्याः क्रान्तिमण्डलानुसारिणी प्राची बिम्बनेमि`गता यावतान्तरे या वलति तद्वलनमिति प्रसिद्धम् । इदं स्पष्टवलनमायनाक्षवशेन सञ्जातवलनसंस्कारेण भवति । तत्र ग्राह्यनेमिगतनाडीमण्डलप्राचीवलनं सममण्डलप्राच्यास्तदाक्षवलनम् । ग्राह्मनेमिगतनाडीमण्डलानुसारिप्राच्या: तन्त्रंमिगतक्रान्तिमण्डलानुसारिप्राचीवलनमायनम् । यत्र केन्द्र तस्मात् त्रिज्यया कृतवृत्तनेम्या पूर्वादिचिह्नमिति प्रसिद्धम् । त्रिज्यावृत्तोत्पन्नवलनं ग्राह्यबिम्बव्यासार्द्धपरिणतं ग्राह्यबिम्बे स्यात् ।

 तत्र विषुवतू क्रान्तिवृत्तसम्पातस्थे ग्राह्यकेन्द्रे त्रिज्यावृत्तसम्पातस्थे' ग्राह्यकेन्द्रे त्रिज्यावृत्तोत्पन्नमायनवलनं परमक्रान्तितुल्यं स्यादिति प्रतिपादयति--तुलाजा' द्योरिति । सम्पातस्थविषुवद्वृत्तयाम्योत्तरध्रुवयोः स्यात्सम्पातस्थक्रान्तिवृत्तावयवस्य दक्षिणोत्तरध्रुवाज्जिनलवान्तरस्थयोः स्यादिति परममायनं वलनं तत्रेत्याह अायनं वलनमिति।

 अयनसन्धौ स्थिते ग्राह्यकेन्द्रे लडूात उज्जयिनीतश्च कुचतुर्थभागे प्राच्यां यमकोटिरेव भवतीति न्यायेन दक्षिणोत्तरैक्यमित्याह एकैवेति ।

 याम्योत्तरेक्ये पूर्वपश्चिमैक्याद्वलनाभावोऽन्यत्राऽनुपातेनानेन साध्यमित्याह - एकैवेति । जिनज्याघ्नीति ।

 अनेनैवाक्षवलनं वदति । एवमिति उन्मण्डलमिति । क्षितिजेऽक्षज्यया तुल्यमिति ।

 याम्योक्तरस्थे ग्राह्यकेन्द्रेऽक्षवलनाभाव इत्याह -तयोरिति ।

 क्षितिजयाम्योत्तरवृत्तान्तस्थे ग्राह्यकेन्द्रेऽनुपातेन साध्यमित्याह--नतक्रमज्ययेति ।

 कथं साध्यमिति दर्शयति-नतमिति । अाक्षवलनदिग्ज्ञानमाह प्रागिति ।  लल्लेनोत्क्रमज्यया वलनं साधितं तद्दूषयाति-न स्पष्टवलनाभाव इति ।  प्रकारान्तरेणाह--सर्वत इति । तत्रेति, गोल इति । तत्तिर्यगिति । सूत्राणीति । कदम्बध्रुवसूत्रान्त इति ।

 तृतीयप्रकारेणोपपत्तिमाह-–अथवेति । अत्र ग्राह्यबिम्बगता क्रान्तिवृत्तप्राची ज्ञेया । तस्या दक्षिणोत्तरत: शरान्तरेण ग्राहक इति सुज्ञानत्वादायनवलन मध्यमक्रान्त्यैवायनवलनं साध्यते ।

 यैः शरसंस्कृतमध्यमक्रान्तेरायनवलनं साध्यते ते कुबुद्धय इत्याह--तत्रेति । अयनवशेन वलनमायनवलनमिति प्रसिद्धेरयनसङ्केतस्योदगपागयने मृगककिणोरिति च कृतत्वाच्छरसंस्कारो न युक्त एव ।


१. मता क ख पु० ।