पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/460

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१८
सिद्धान्तशिरोमणौ गोलाध्याये


इदानी नतिलम्बनयो: कारणमाह--
 पर्वान्तेऽक नतमुडुपतिच्छन्नमेव प्रपश्येत्।
 भूमध्यस्थो न तु वसुमतीपृष्ठनिष्ठतूदनीम्।
 तद्दृक्स्रुत्राद्धिमरुचिरधो लम्बितोऽर्कग्रहेऽतः
 कक्षाभेदादिह खलु नतिर्लम्बनं चोपपन्नम् ॥ २ ।।
 समकलकाले भूभा लगति मृगाङ्के यतस्तया म्लानम्।
 सर्वे पश्यन्ति समं समकक्षत्वान्न लम्बनावनती । ३ ।।
 पूर्वाभिमुखो गच्छन् कुच्छायान्तयंतः शशी विशति ।
 तेन प्राक् प्रग्रहणं पश्चान्मोक्षोऽस्य निःसरतः ।। ४ ।।
 भानोबिंम्बपृथुत्वा'दपृथुपृथिव्याः प्रभा हि सूच्यग्रा ।
 दीर्घतया शशिकक्षामतीत्य दूरं बहिर्याता। ५ ।
 अनुपातात् तद्देध्यं शांशकक्षायां च तद्बम्बम् ।
 भूभेन्दोरन्यदिशि व्यस्तः क्षेपः शशिग्रहे तस्मात् ॥ ६ ।।
वा० भा-दशन्तिकाले रवि पूर्वत: पश्चिमतो वा नतं चन्द्रण छन्नमेव प्रपश्यति भूमध्यस्थो द्रष्टा । यतो दर्शान्ते समो भवतः । यो भूपृष्ठस्थो द्रष्टा स तदार्क छन्न न पश्यति । यतस्तद्दृष्टिसूत्राच्चन्द्रोऽधो लम्बितो भवति । अतः कक्षाभेदाल्लम्बनं नतिश्चोपपद्यते । चन्द्रग्रहे तु लम्बननत्योरभावः । यतः समकलकाले भूभा चन्द्रे लगति तया छन्नं सर्वे विदेशान्तरस्था अपि नतमपि तं चन्द्र समं पश्यन्ति । यतस्तत्र छाद्यच्छादकयोरेकैव कक्षा जाता । तथा भूभा तावत् पूर्वाभिमुखमर्कगत्या गच्छति । चन्द्रश्च स्वगत्या । स शीघ्रत्वात् पूर्वाभिमुखो गच्छन् भूभां प्रविशति । तेन तस्य प्राक् स्पर्शः । भूभाया नि:सरत पश्चान्मुक्तिः । भानोबिम्ब विपुल पृथ्वी लघु: । अतो भूभा सूच्यग्रा भवति। दीर्घत्वेन चन्द्रकक्षामतीत्य दूरं गता । तद्देध्यंमनुपातात् साध्यते । चन्द्रकक्षाप्रदेशे भूभा चन्द्रबिम्बं चेति सर्व ग्रहणे प्रतिपादितमेव । २-६
 वा० वा० - तिथ्यन्ते चेद् ग्रह उडुपते: किन्न भानोस्तदानोमिति प्रश्नस्योत्तरमाह--पर्वान्तेऽर्कमिति ।
 द्रष्टुर्भूपृष्ठनिष्ठत्वतुल्यत्वेऽपि कक्षाभेदान्नतिलम्बनमुत्पद्यत इत्याह-कक्षाभेदादिति । -


१. भानोबिम्बमहत्त्वादिति वा पाठः ।।
२. अत्र बापूदेवः--
दिवाकरनिशानाथपरलम्बनसंयुतिः ।
सूर्यबिम्बार्धरहिता भूभाबिम्बदलं भवेत् ।