पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/461

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१९
ग्रहणवासना

 चन्द्रग्रहे कुतो न लम्बनावनती इत्याह-समकलकाले इति । चन्द्रकक्षास्थभूछाययैव समकलकाल एव चन्द्रः छाद्यत इति छाद्यछादकयोः समकक्षात्वमुक्तम् ॥
 इव्न्दोः प्राच्यां प्रग्रह इति प्रश्नस्योत्तरमाह-पूर्वाभिमुख इति प्राक् प्रग्रहणमित्यत्र प्रागाश्रितमित्युक्तमेवं सर्वत्र ।

 भूच्छायायाः कथं चन्द्रकक्षागमनमिति प्रतिपादयति-भानोरिति । चन्द्रकक्षायां भूच्छायाविस्तृतिः सा भूभा बिम्बमित्युच्यते ।

 अनुपातेन भूभा दैघ्र्यविस्तारौ साध्यावित्याह-अनुपातादिति । चन्द्रग्रहे 'व्यस्तदिशः शराः स्युरेतस्य कारणं वदति-भूभेन्द्वोरिति ।। सूर्यग्रहे क्रान्तिवृत्तस्थसूर्यग्राह्याद्ग्राहकश्चन्द्रो विमण्डलस्थः शरान्तरेण शरदिश्येव भवति । ग्राह्यः प्रत्यक्षं दृश्यते कुत्रास्य ग्राहक इति चन्द्रग्रहे व्यस्तशरदिश्येवेति स्पष्टम् ॥२-६॥
 इद्रानी छादकनिर्णयमाह—
 छादकः पृथुतरस्ततो विधोरर्धखण्डिततनोर्विषाणयोः ।
 कुण्ठता च महती स्थितियतो लक्ष्यते हरिणलक्षणग्रहे। ७ ।।
 अर्धखण्डिततनोर्विषाणयोस्तीक्ष्णता भवति तीक्ष्णदीधितेः ।
 स्यात् स्थितिर्लघुरतो लघुः पृथक् छादको दिनकृतोऽवगम्यते ॥ ८ ।।
 दिग्देशकालावरणादिभेदान्नच्छादको राहुरिित बुवन्ति ।
 यन्मानिनः केवलगोलविद्यास्तत् संहितावेदपुराणबाह्यम् । ९ ।
 राहुः कुभामण्डलग शशाङ्क शशाङ्कगश्छादयतीनबिम्बम् ।
 तमोमयः शंभुवरप्रदानात् सर्वागमानामविरुद्धमेतत्' ।। १० ।।
 वा० भा०-अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरोऽवगम्यते । कुतः । यतोऽर्धखण्डितस्येन्दोविषाणयोः कुण्ठता दृश्यते स्थितिश्च महती । अकस्य पुनर्धखण्डितस्य तीक्ष्णता विषाणयोः


१. व्यस्तादेश इति कपु० । २. अत्र लल्ल.--
ग्रहणे कमलासनानुभावाद्धुतदत्तांशभुजोऽस्य सन्निधानम् ।
यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं गतं प्रसिद्धिम् ॥

शि० धी० गो० मिथ्या २७ श्लो० ॥

अत्र श्रीपतिः--
भूच्छायायां प्रविष्टः स्थगयति शशिन शुक्लपक्षावसाने
राहु'ब्रह्मप्रसादात् समधिगतवरस्तत्तमो व्यासतुल्यः ।
ऊध्वंस्थं भानुबिम्बं सलिलमयतनोरप्यधोवति बिम्बं
संसृत्यैवं च मासव्युपरतिसमये स्वस्य साहित्यहेतोः ।

सि० शे० १६ अ० १५ श्लो० ।।