पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/456

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१४
 सिद्धान्तशिरोमणौ गोलाध्यायै

 देशे यस्य राशेः स्वचरार्धसमाः स राशिस्तत्र देशे सदा दृश्य इत्यत्र का युक्तिः ॥ अन्यथा दृश्यादृश्यं सर्वं युक्तिशून्यमुक्तम् ॥ यद्येवं तहि यत्र षट्षष्टिः ६६ पलांशास्तत्र सर्वेषां स्वचरोदयसाम्यं स्यात्। युगपत् सर्वेषां सदा दृश्यत्व मेरावपि न घटते किंत्वन्यत्रातस्तदसत्। ३१ ।
 वा० वा०-लल्लेन यत्सदोदितराशिलक्षण कृतं तदनूद्य दूषयतिराशेरिति ॥ ३१ ।।
इदानीमन्यद्दूषणमाह--

 षट्षष्टिः सदला लवाः पलभवा यस्मिन् न तस्मिन् धनु
 र्नक्रश्चापि न वृश्चिको न च घटः पश्चाद्रयो७५० यत्र च' ।
 दृश्यः स्यादिति यत् सदा प्रलपितं लल्लेन गोले निजे
 गोलज्ञ त्रिलवोनितास्त उदिताः केनोच्यतां हेतुना ।। ३२ ।।

 वा० भा०-अत्र त्र्यंशयुङ्नवरसा इत्यादिभिर्भवितव्यम् ॥ ६९ ।। २१ ॥ ७८ । १५ । एषां स्थान एते ६६ ॥ ७ ॥ त्रिभिस्त्रिभिरंशैरूना केन हेतुना लल्लेन निजे गोले पठिताः । हे तद्गोलज्ञ तत् प्रोच्यताम् ॥
 [ तथा नहि तेषां राशीनां निरक्षोदयसमानि स्वचरखण्डानि। तत्र चरार्धान्यपि नागच्छन्ति । चरञ्ज्यायास्त्रिज्यातोऽधिकत्वात् ॥ अतः पूर्वश्लोकेऽतिदुष्टत्वमित्यर्थः ।। * ।।॥ ३२ ।।

  वा० भा०--तदुक्तमन्यदपि दूषयति-षट्षष्टिरिति ॥ ३२ ।।
 अथाक्षलम्बज्ञानार्थमाह--
 यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ ।
 ती क्रमाद्विषुवदहयहदले येऽथवा नतसमुन्नता लवाः । ३३।।

 वा० भा०-चक्रयन्त्रेण ग्रहवेधवद्भुवं विध्येत्। तत्र यन्त्रनेम्यां य उन्नतांशास्तेऽक्षांशाः । ये नतास्ते लम्बांशाः । अथवा विषुवद्दिनार्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इति युक्तियुक्तम् ।। ३३ ॥
 इदानी शङ्क्वानयनवासना संक्षिप्तामाह--

 उन्नतं द्युनिशमण्डले कुजात् सावनंदयुतिविधौ हि तज्ज्यका।
 तिर्यगक्षवशतोऽक्षकर्णवच्छेदको न तु नरः स लम्बवत् ।। ३४ ।।
वा० भा०--अस्य वासना त्रिप्रश्ने कथितैव । ३४ ।


१. अत्र लल्ल:-

पञ्चभिरधिका ससति रंशा यस्मिन् पलस्य विषये स्युः । तत्र न वृश्चिककामुकमकरघटा दृश्यतां यान्ति । शि० धी ५ गो० मध्य० २● श्लो० ॥ २. अत्र बापूदेवः-तथा नहीतिप्रभृतीत्यर्थ इत्यन्तं केनचिद्गोलानभिज्ञेन प्रक्षिसमिति प्रतिभाति ॥