पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/457

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१५
त्रिप्रश्नवासना

इदानों केषांचिद्दूषणमाह--

चन्द्रप्रभार्थमसकृद्विधिनोदितं यत्
कैश्चित् कृतं खलु न सत् तदसावनत्वात् ।
जानन्ति ये न निपुण गणितं सगोल
तेषां तु तन्त्रकरणव्यसनं वृथैव ॥ ३५ ।।

 वा० भा०-व्याख्यातमेव । ३५ ॥
 इदानी शङ्कुस्थानमाह‌--
 दृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतो नताः ।
 शडुरुन्नतलवज्यका भवेद्दुग्गुणश्च नतभागशिजिनी ॥ ३६।
 भास्करेऽत्र सममण्डलोपगे यो नरः स समशङ्कुरुच्यते ।
 कोणशङ्कुरथ कोणवृत्तगे मध्यशङ्कुरिति दक्षिणोत्तरे ॥ ३७ ।।
  कुपृष्ठगानां कुदलेन हीन दृङ्मण्डलार्ध खचरस्य दृश्यम्।
 कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्तितिथ्यंशमिताः प्रभार्थम् ।।३८।।
 वा० भा० - दृङ्मण्डले क्षितिजादुपरि ग्रहपर्यन्त येऽशास्त उन्नताः । खमध्यादधस्ते नताः । उन्नताशाना ज्या शङ्कुः । नताशज्या दृग्ज्या । शङकुः कुच्छन्नलिसाभिरूनः कार्यः ।द्रष्टुः कुदलेनोच्छूितत्वात्। अयमर्थों ग्रहच्छायाधिकारे व्याख्यात एव ॥ ३६-३८ ।
 इदानीमग्रामुदयास्तसूत्रं चाह--
चमाजे युरात्रसममण्डलमध्यभागजीवाग्रका भवति पूर्वपराशयोः सा । अग्राग्रयोः प्रगुणमत्र निबद्धसूत्र' यत् तद्वदन्ति गणका उदयास्तसूत्रम् ॥३९॥ सूत्रादिवाशडुतलं यमाशं याम्यां गतं हि द्युनिशं कुजोध्वें। अधश्च सौम्यां निशि सौम्यमस्मात् सद्युक्तियुक्ततं नृतलं निरुक्तम् ॥४०॥
 सौम्याग्रकाग्रान्नृतलं हि याम्यं याम्याग्रकाग्रात् पुनरेव याम्यम् ।
 तदन्तरैक्यं समवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः ।।४१।।
 दृग्ज्यां श्रुर्ति चाथ तयोस्तु कोर्टि पूर्वापरां वर्गवियोगमूलम्।
 वा० भा०-क्षितिजस्वाहोरात्रवृत्तसंपातयोर्बद्ध सूत्रमुदयास्तसूत्रम् । ग्रहस्थानाल्लम्बः शङ्कुः । तस्य तलमुदयास्तसूत्राद्दक्षिणतो भवति । यतः क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं । गतम् । अधस्तूत्तरतो गतम् । अतो निश्युत्तरं नृतलम् । अथ भुज उच्यते । उत्तरगोलेऽग्रोत्तरा नृतल याम्यमतस्तेनोनाग्रा बाहुर्भवति । बाहुनीम शङ्कुप्राच्यपरसूत्रयोरन्तरम् । यदाग्रा शङ्कुतलादूना तदा तयोरन्तरं दक्षिणं शङ्कुतलं बाहुः स्यात् । एवं समवृत्तप्रवेशादुपरि । दक्षिणगोले त्वग्रा याम्या शङ्कुतलं च याम्यं तयोयोंगे कृते बाहु: स्यात्। रविसममण्डलयोरन्तरांशानां ज्या बाहु: । तत्र या दृग्ज्या स कर्णः ॥ तयोर्वर्गान्तरपदं पूर्वापरा कोटिः ॥ ३९-४१है । -